Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 354
________________ : ३०२ : सम्मतितत्त्व सोपाने [ द्वात्रिंशम् शाबलेयादयो बहिर्व्यवस्थिता अवसीयन्ते, अन्तश्च शब्दोल्लेखः, न पुनस्तद्भिन्नमपरं गोत्वम्, तस्मान्न निर्विकल्पकेन सविकल्पकेन वाऽध्यक्षेण सामान्यं व्यवस्थापयितुं शक्यम्, अनुमानतो निमित्ततामात्रसिद्धावपि तत्किं सामान्यमन्यद्वेति न निश्चयो भवताम् । न च पिण्डानां विशेषप्रत्ययजननेऽन्वयव्यतिरेकाभ्यां सामर्थ्यं सिद्धमितीहापि सामान्यस्यानुगतमतेः 3 सामर्थ्यं निश्चीयत इति वाच्यम्, सामान्यस्य कचिदपि सामर्थ्यानवधारणात्, पिण्डसद्वावे ह्यनुगताकारं ज्ञानमुपलभ्यते तदभावे नेति वरमध्यक्ष प्रत्ययावसेयानां तेषामेव तन्निमित्तता कल्पनीया । यदुक्तं पिण्डानामविशिष्टत्वात्तत्प्रत्ययानिमित्तत्वं तदसङ्गतम्, यथाहि पिण्डादिरूपतयाऽविशेषेऽपि तन्तूनामेव पटजननहेतुत्वं न कपालादीनां तथा शाबलेयादीनामेव गौगौरिति ज्ञानोत्पादने सामर्थ्य न कर्कादीनाम्, किञ्च सामान्यस्य यदि मूर्त्तत्व10 मभ्युपगम्यते तर्हि घटादिवत्सामान्यं न स्यात्, अथामूर्त्तत्वं न रूपादिवत्सामान्यं स्यात् । 3 तथा यद्यनंशं तदा परमाणुवत्सामान्यं न स्यात्, सांशत्वेऽपि न घटवत्सामान्यम् । अपि च पिण्डेभ्यः सामान्यस्य भेदे घटादिभ्यः पट इव भेदेनैवोपलभ्येत, सम्बन्धाभावाच्च गोर्गोत्वमिति व्यपदेशानुपपत्तिः, व्यक्तिभ्योऽभेदे चान्यत्राननुयायित्वान्न पिण्डस्वरूपवत् सामान्यरूपता, नापि भिन्नप्रतिभासविषयत्वाद्व्यक्तिभ्यस्तस्य भेदः, बुद्धिभेदस्य व्यक्तिनिमि15 तत्वस्योक्तत्वात् । किञ्च यदि सामान्यबुद्धिर्व्यक्तिभिन्नसामान्यनिमित्ता तदा व्यक्तयग्रहणेऽपि भवेत्, गोपिण्डाग्रहणेऽश्वबुद्धिवत् न च कदाचित्तथा भवति, ततो न व्यक्तिव्यतिरिक्तसामान्यसद्भावः । न चाधारप्रतिपत्तिमन्तरेणाधेयप्रतिपत्तेरभावात्तद्रह एव तद्ग्रहो न तस्याभावात्तद्रहः, अन्यथा कुण्डाद्याधार प्रतिपत्तिमन्तरेण बदराधेयस्याप्रतिपत्तेस्तस्याप्यभाव एव स्यादिति वाच्यम्, बदरादेः प्रतिनियताधारमन्तरेणापि स्वरूपेणोपलब्धेः, गोत्वादेस्तु प्रति20 नियतपिण्डोपलंभमन्तरेण स्वरूपेण कदाचनाप्यनुपलब्धेरभाव एव । यदि तस्यानाधारत्वं तदा न सामान्यं शशशृङ्गवत्, अथ तदाधारवत्, तदा कात्रन्यैकदेशाभ्यां वृत्त्यनुपपत्तिरवयविवत् । अपि च अनुगताकारं ज्ञानं सामान्यमन्तरेणासम्भवीत्युच्यते परैः, तत्र किं यत्रानुगतं ज्ञानं तत्र सामान्यसम्भवः, उत यत्र सामान्यसम्भवस्तत्रानुगतं ज्ञानं प्रतिपाद्यते, नाद्यः, गोत्वादिसामान्येषु बहुषु सामान्यं सामान्यमिति प्रत्ययोत्पत्तेरपि अपरसामान्याभावात्, एवं प्रागभावाद्यभावेष्यपि, न च सामान्यादावनुगतमतिर्गौणभूता, अस्खलद्वृत्तित्वेन तदसिद्धेः । न द्वितीयः, पाचकादिषु तदभावेऽप्यनुगतप्रत्ययोत्पत्तेः । न च पचन क्रियानिमित्तस्तत्प्रत्ययः, तस्याः प्रतिव्यक्ति भिन्नत्वात्, तत्समान्यनिमित्तत्वे प्रागेव तत्प्रत्यय प्रसूतिर्भवेत्, तस्य नित्यवात् न चाभिव्यञ्जक क्रियाभावात् प्रागनभिव्यक्तं तदिति वाच्यम्, विनस्याभिव्यञ्जकस्या 25 १ पाचकत्वसामान्यनिमित्तत्व इत्यर्थः ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420