Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
: २८६ :
सम्मतितत्त्वसोपाने
[ द्वात्रिंशम्
णतया समानोत्पादाने काङ्कुराणामिव सकलकार्याणां सकृदेवोत्पत्तिप्रसङ्गाच्च, अन्यथा विशेषाभावात् सर्वदाऽनुत्पत्तिप्रसङ्गः स्यात् । न च समवायिकारणभूतसंयोगादेरपेक्षणीयस्यासन्निधेरविकलकारणत्वमसिद्धमिति वाच्यम्, अणूनां नित्यानां संयोगादिना अनाधेयातिशयानां तदपेक्षाऽसम्भवात् न च तनुकरणादीनां कार्याणां सकृत् प्रादुर्भावो दृश्यते, अतः 5 क्रमवत्कार्यकर्त्तृत्वात् क्रमवदङ्कुरादिनिर्वर्तक बीजादीनामिव परमाणूनामनित्यत्वमेव स्यात् । न च परमाणूत्पादकाभिमतं न सद्धर्मोपेतं सत्त्वप्रतिपादकप्रमाणाविषयत्वात् शशशृङ्गवदित्यनुमानान्नित्यत्वं तेषामिति वाच्यम्, असिद्धत्वात्, कुविन्दादेरणूत्पादककारणस्य सत्त्वप्रतिपादक प्रमाणविषयत्वात्, यथा च पटाइयः परमाण्वात्मकाः कुविन्दोत्पाद्यास्तथा वक्ष्यते । अनैकान्तिकोऽपि हेतु:, देशकालस्वभावविप्रकृष्टानां भावानां सदुपलम्भकप्रमाण निवृत्तावपि 10 सवाविरोधात् । न च यत एव प्रमाणात् परमाणवः प्रसिद्धाः तत एव नित्यत्वधर्मोपेता अपि ते इति तद्ब्राहकप्रमाणबाधितमनित्यत्वं तेषां नातोऽनित्यत्वानुमानेन प्रकृतप्रतिज्ञा बाधिता, तेषां च प्रमाणतोऽप्रसिद्धौ आश्रयासिद्धतया अनित्यत्वानुमानानुत्थानादिति वाच्यम्, अनित्यत्वधर्मोपेतस्यैव सर्वस्य सर्वप्रमाणविषयत्वात्, अन्यथाभूतस्य प्रमाणाजनकत्वेन तद्विषयत्वानुपपत्तेः, नित्यस्य चाकारणत्वान्नातश्चतुः संख्यं परमाण्वात्मकं नित्यद्रव्यं सम्भ15 वति । नापि तदारब्धमवयविद्रव्यं द्वषणुकादिकं सम्भवति, गुणावयवभिन्नस्य तस्यानुपलब्धेः न हि शुक्लादिगुणेभ्यस्तन्त्वाद्यवयवेभ्यश्च भिन्नं पटादिद्रव्यं चक्षुरादिज्ञानेऽवभासते, परमाणूनामेव विशिष्टाकारतयोत्पन्नानां प्रतिभासविषयतया गुणावयवार्थान्तरभूतो दृश्यत्वेनाभिमतो गुण्यवयवी तत्रैव देशे नास्ति, उपलब्धिलक्षणप्राप्तत्वे सति तत्रानुपलम्भात्, यथा कचित् प्रदेशेऽनुपलम्भविषयो घटादिरित्यनुमानेन तदभावसिद्धेः, महत्यनेकद्रव्यवत्त्वाद्रूपा20 चोपलब्धिरिति वचनात्तयो ईश्यत्वेनाभ्युपगमान्न हेतोर्विशेषणमसिद्धम् । अथ गुणव्यतिरिक्तो गुणी उपलभ्यत एव, तद्रूपाग्रहणेऽपि मन्दमन्दप्रकाशे बलाकादीनामुपलम्भात्, स्वगतशुकुगुणाग्रहणेऽपि च सन्निहितोपधानावस्थायां स्फटिकोपलो गृह्यत एव तथाऽऽप्रपदीनकञ्चुकावच्छन्नशरीरः पुमांस्तद्गतश्यामादिरूपाप्रतिभासेऽपि पुमानिति प्रत्ययोत्पत्तेः प्रतिभात्येव, एवं यद्यद्व्यवच्छेद्यत्वेन प्रतीयते तत्ततो भिन्नम्, यथा देवदत्तादश्वः, गुणिव्यवच्छे25 द्यत्वेन नीलोत्पलस्य रूपादयः प्रतीयन्ते च एवं पृथिव्यप्तेजोवायवो द्रव्याणि रूपरसगन्धस्पर्शेभ्यो भिन्नानि, एकवचन बहुवचनविषयत्वात्, यथा चन्द्रो नक्षत्राणीति, तथा च पृथिवीत्येकवचनम्, रूपरसगन्धस्पर्शा इति बहुवचनमुपलभ्यत इत्यनुमानतोऽपि तयोर्भेदः ।
१ तदीयरूपवाकयोर्यद्य मेदः स्यात्तर्हि बलाकोपलम्भे तदीयस्वाभाविकरूपोलम्भोऽपि स्यान चोपलभ्यते तस्मात्तयोर्भेद इति भावः । २ जपाकुसुमसन्निधान इत्यर्थः ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420