Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितत्त्वसोपाने
[द्वात्रिंशम् । क्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाद्रव्यरूपतैव स्यात् , न गुणत्वम , एवम्भूतानाश्वाणुशो भिन्नानां गुण इति संज्ञाकरणे न नाम्नि विवादः, न चाणुत्वेऽप्याश्रितत्वाद्गुणत्वं युक्तम् , सदसतोराश्रयानुपपत्तेरतिप्रसङ्गाच, अवय विद्रव्यस्यापि
अवयवद्रव्याश्रितत्वापत्तेः । संख्या चैकत्वादिव्यवहार हेतुरेकत्वादिस्वरूपा । सा एकद्रव्या 5 चानेकद्रव्या च, तत्रैकसंख्या एकद्रव्या सलिलादिपरमाण्वादिगतरूपादीनामिव नित्यानित्यत्वनिष्पत्तिरूपा अनेकद्रव्या द्वित्वादिसंख्या, अनेकविषयबुद्धिसहितेभ्य एकत्वेभ्यो निष्पन्ना, तस्या अपेक्षाबुद्धिविनाशा द्विनाशः कचिदाश्रयविनाशात् , इयं द्विविधापि संख्या प्रत्यक्षत एव सिद्धति परमतम् , तन्न, एकत्वादिसंज्ञाविषयपदार्थव्यतिरेकेणोपलब्धिलक्षणप्राप्तायाः
संख्यायाः शशविषाणवदनुपलब्धेरसत्त्वात् , न चोपलब्धिलक्षणप्राप्तत्वमसिद्धम् , तस्या दृश्य10 त्वेनाभ्युपगमात् । यथा चैक ज्ञानं वे ज्ञाने इत्यादिबुद्धेः संख्यामन्तरेणापि निर्वाहस्तथैको घट
इत्यादिबुद्धरपि असहायादिषु घटादिषु स्वेच्छाकल्पितैकत्वादिशब्दसंकेतविहितमनस्कारप्रभवस्वाद्विशेषबुद्धितोऽपि न संख्यासिद्धिः, न हि ज्ञानादौ गुणत्वात्संख्याऽस्ति तस्याद्रव्यत्वात् संख्यायाश्च गुणत्वेन द्रव्याश्रितत्वादतो न दृष्टान्तसिद्धिः । न च ज्ञानादौ एकत्वादिज्ञानमु.
पचरितम् , अस्खलद्वृत्तित्वात् , द्रव्यसमवेतादेकत्वादेरेकार्थसमवायित्वादेतज्ज्ञानं गुणादौ 15 भविष्यतीति चेन्न, एकस्मिन् द्रव्ये रूपादयो बह्वो गुणा इति ज्ञानानुदयप्रसङ्गात् , आश्रये
द्रव्ये बहुत्वसंख्याया अभावात् , एकार्थसमवायादेर्जायमानप्रत्ययस्य गौणतापत्त्या माणवकेऽ नलप्रत्ययवस्खलितताप्रसङ्गाच्च । न च गजतुरगादौ संख्याप्रत्ययो गजादिव्यतिरिक्तनिब
न्धनो गजादिविलक्षणप्रत्ययत्वात् , नीलपटप्रत्ययवादिति संख्यासिद्धिरिति वाच्यम् , निमित्त__ मात्रसाधने इच्छारचितसंकेतमनस्कारादिनिमित्ताभ्युपगमेन सिद्धसाधनात्, एतद्व्यतिरि20 क्तनिमित्तसाधने बुद्ध्यादावनैकान्तिकत्वात् , तत्रैकादिबुद्धर्विलक्षणत्वेऽपि संख्यानिबन्धनस्वाभावात् । अनेकद्रव्या द्वित्वादिसंख्यापि संकेताभोगमात्रेणोपपद्यते, एवं सति अदृष्टसाम
यस्य हेतुत्वं न कल्पितं स्यात् , अन्यथाऽपेक्षाबुद्धेरदृष्टसामर्थ्यायाः तद्धेतुत्वेऽन्यस्यापि तद्धेतुताप्रसङ्गेनानवस्था भवेत् । तथा द्वित्वादिसंख्याया एकस्या अनेकवृत्तित्वासम्भवः एक
स्यानेकवृत्तेः प्रतिषिद्धत्वात् । परिमाणव्यवहारकारणं महदणुदीर्घहस्वभेदं नित्यानित्यविभाग 25 रूपादिप्रत्ययविलक्षणबुद्धिग्राह्यतया रूपादिभ्योऽर्थान्तरत्वेन सिद्धं परिमाणं परो मन्यते,
तत्र रूपादिविषयेन्द्रियबुद्धिलक्षणप्रत्यक्षप्रत्ययग्राह्यत्वाद्रूपादिभ्यस्तस्यार्थान्तरत्वेन साधने हेतु
१ यथा वाहीको गौरिति प्रत्ययः स्खलति. गौरिव गौ तु गौरेव सास्नाद्यभावादिति, न तथा स्खलति एकमिवैक ज्ञानादि न त्वेकमे वेति, किं नाद यादशी घटादिनस्पलिना बुद्धिर्भवति तादृशी ज्ञानादिश्य
"Aho Shrutgyanam"

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420