Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपान
कणादोक्तशेयनिरसनम् । रसिद्धः, तथाव्यवस्थितरूपादिपदार्थव्यतिरेकेण महदादिपरिमाणस्याध्यक्षप्रत्ययग्राह्यत्वेनासंवेदनात् , अथाणुमहदादीत्येवं या विकल्पिका बुद्धिः सा रूपादिप्रत्ययविलक्षणबुद्धिपदेनाभिप्रेतेति चेन्न, हेतोर्विपक्षे बाधकप्रमाणाभावेनानैकान्तिकत्वात् , न ह्यस्याः परमार्थतः किश्चिदपि ग्राह्यमस्ति कल्पनाबुद्धित्वात् , केवलं तेष्वेव रूपादिषु एकदिङ्मुखादिप्रवृत्तेषु दृष्टेषु तद्विलक्षणरूपादिभेदप्रतिपादनाय कृतसमयानुरोधान्महादित्यध्यवस्यन्ती बुद्धि यते 5 नातो वस्तुव्यवस्था, न च रूपादिव्यतिरिक्तं ग्राह्यमप्यस्तीत्यसिद्धतापि हेतोः, प्रतिज्ञायाश्च प्रत्यक्षबाधा, प्रत्यक्षत्वेनेष्टस्य महदादे रूपादिव्यतिरेकेणानुपलब्धेः । ततो दृष्टे स्पृष्टे वा रूपादिके एकदिङ्मुखप्रवृत्ते भूयसि अतद्रूपपरावृत्ते दीर्घमिति व्यवहारः प्रवर्तते परिमाणाभावेऽपि, तदपेक्षया चाल्पीयसि रूपादौ समुत्पन्ने ह्रस्वमिति, एवं महदादावपि योज्यम् , एकानेकविकल्पाभ्यां रूपादिवन् महदायनुपपत्तेश्चाभावः । अविद्यमानेऽपि महादादौ भवत्प्रक- 10 ल्पिते प्रासादमालादिषु महदादिप्रत्ययप्रादुर्भूतिरनुभूयते । न च यत्रैव प्रासादादिषु मालाख्यो गुणः समवेतस्तत्र महत्त्वादिकमपीति एकार्थसमवायबलान्महतीत्येवं तन्मालादि व्य. पदिश्यत इति वाच्यम् , प्रासादस्याययवित्वेनानभ्युपगमात् , विजातीयानां द्रव्यानारम्भकत्वात्, किं तु स संयोगात्मको गुणः, स च न परिमाणवान् , निर्गुणत्वाद्गुणानाम् , ततो मालाख्यस्य गुणस्य प्रासादादिश्वभावात् प्रासादमाले इत्ययमेव प्रत्ययस्तावदयुक्तो दूरतो 10 महती ह्रस्वा वा सेति प्रत्ययव्यपदेशः, मालायाः संख्यात्वेन प्रासादादीनां संयोगत्वेन महत्त्वादेश्व परिमाणत्वेन परैरभ्युपगमात् , तस्मान्न परिमाणं रूपादिषु पृथग् गुण इति स्थितम् । इदमस्मात् पृथगिति यद्वशात्संयुक्तमपि द्रव्यमपोद्धियते तदपोद्धारकारणं पृथक्त्वं नाम गुणो घटादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वादिति काणादाः, तन्न रूपादिभ्योविवेकेनार्थान्तरभूतस्य तस्य प्रत्यक्षबुद्धावप्रतिभासनाद्धेतोरसिद्धेः, अत एव च तस्योपलब्धि- 20 लक्षणप्राप्तत्वेनाभिमतस्यानुपलम्भादसत्त्वमेव, न च पृथगिति विकल्पबुद्धिबलेन तस्य सिद्धिः, तत्प्रत्ययस्य सजातीयविजातीयव्यावृत्तरूपाद्यनुभवनिबन्धनत्वात् , व्यावृत्तता च भावानां स्वस्वभावव्यवस्थितेः, अन्यथा स्वतोऽव्यावृत्तस्वरूपाणां पृथक्त्वादिवशादपि पृथप्रपत्वासिद्धेः। किश्च सुखदुःखादिगुणेषु यथा परस्परव्यावृत्तात्मतया पृथगिति प्रत्ययविषयता पृथत्त्वगुणाभावेऽपि तथा घटादिष्वपि भविष्यतीति हेतोरनैकान्तिकत्वम् । न चापि तेषु 25 भाक्तोऽयं प्रत्ययः, मुख्य प्रत्ययाविशिष्टत्वात् । पृथगित्यपोद्धारव्यवहारस्य स्वरूपविभिन्नपदार्थानिबन्धनत्वात् परोपन्यस्तानुमाने प्रतिज्ञा या अनुमानबाधा तथा च प्रयोगो ये परस्परव्यावृत्तात्मानस्ते न स्वव्यतिरिक्तपृथक्तवसमाश्रयाः, यथा सुखादयः, परस्परव्यावृत्तात्मा. नश्च घटाढ्य इति स्वभावहेतुः, एकस्यानेकवृत्त्यसंभवः सम्बन्धाभावः सुखादिषु तव्यवहा
"Aho Shrutgyanam"

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420