Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
उत्पादादिविशेषनिरूपणम् । समानजातीयानि इत्यभ्युपगमः परित्यज्यताम् , यतो न परमाणुद्वयणुकादीनामपरित्यक्ताजनकावस्थानामनङ्गीकृतस्वकार्यजननस्वभावानाच द्यणुकत्र्यणुकादिकार्यनिर्वर्तकत्वम् , अन्यथा प्रागपि तत्कार्यप्रसङ्गात् । अथ न तेषामजनकावस्थात्यागतो जनकस्वभावान्तरोत्पत्तौ कार्य. जनकत्वं किन्तु पूर्वस्वभावव्यवस्थितानामेव संयोगलक्षणसहकारिशक्तिसद्भावात् कार्यनिर्वर्तकत्वं प्राक् तु तदभावान्न कार्योत्पत्तिः कारणानामविचलितस्वरूपत्वेऽपि । न च संयो- 5 गेन तेषामनतिशयो व्यावय॑ते, अतिशयो वा कश्चिदुत्पद्यते, अभिन्नो वा भिन्नो वा संयोगस्यैवातिशयत्वात् । न च कथमन्यस्तेषां संयोगोऽतिशय इति वाच्यम् , अनन्यस्याप्यतिश. यत्वायोगात् , न हि स एव तस्यातिशय इत्युपलब्धम् , तस्मात्तत्संयोगे सति कार्यमुपलभ्यते तदभावे तु नोपलभ्यत इति संयोग एव कार्योत्पादने तेषामतिशय इति न तदुत्पत्तौ तेषां स्वभावान्तरोत्पत्तिः संयोगाऽतिशयस्य तेभ्यो भिन्नत्वादिति मैवम् , यतः कार्योत्पत्तौ तेषां 10 संयोगोऽतिशयो भवतु, संयोगोत्पत्तौ तु तेषां कोऽतिशय इति वाच्यम् , न तावत् स एव संयोगस्त स्याधाप्यनुत्पत्तेः, नापि संयोगान्तरं तस्यानभ्युपगमात् , अभ्युपगमेऽपि तदुत्पत्ता. वप्यपरसंयोगातिशयप्रकल्पनायामनवस्थाप्रसक्तेः । न च क्रियाऽतिशयः, तदुत्पत्तावपि पूर्वो
दोषप्रसङ्गात्, किश्चादृष्टापेक्षात्माणुसंयोगात् परमाणुक्रियोत्पद्यत इत्यभ्युपगमादात्मपरमाणुसंयोगोत्पत्तावप्यपरोऽतिशयो वाच्यः तत्र च तदेव दूषणम् । किश्वासौ संयोगो द्यणुक- 15 निर्वर्तकः किं परमाण्वाश्रितः, उत तदन्याश्रितः किंवाऽनाश्रितः, प्रथमेऽपि तदुत्पत्तौ यदि परमाणुरुत्पद्यते तदा संयोगवत्तस्य कार्यताप्रसङ्गः, यदि नोत्पद्यते तदा संयोगस्तदाश्रितो न स्यात् , समवायस्याभावात् , परमाणूनां संयोगं प्रत्यकारकत्वात् , तद. कारकत्वन्तु तत्र तस्य प्रागभावानिवृत्तेः, तदन्यगुणान्तरवत् , ततस्तेषां कार्यरूपतया परिणतिरभ्युपगन्तव्या, अन्यथा तदाश्रितत्वं संयोगस्य न स्यात्, अन्याश्रितत्वेऽपि 20 पूर्वोक्तदोषप्रसङ्गः, अनाश्रितत्वे तु निर्हेतुकोत्पत्तिप्रसक्तिः । अथ संयोगस्यानुत्पादाङ्गीकारे तस्य सद्रूपत्वे नित्यताप्रसङ्गोऽकारणत्वात् , अथास द्रूपत्वं तर्हि कार्यानुदयः स्यात् , तदभावे प्राग्वत् विशिष्टपरिणामोपेतकार्यद्रव्योत्पत्यभावात् , तथा च जगतोऽदृश्यताप्रसक्तिरिति संयोगैकत्वसंख्यापरिमाणमहत्त्वपरत्वाद्यनेकगुणानां तत्रोत्पत्तिरभ्युपेया कारणगुणपूर्व प्रक्रमेण कार्योत्पत्यभ्युपगमात् , इष्टमेवैतदिति चेन्न, आश्रयस्य वाच्यत्वात , न च 25 कार्यमाश्रयः, तदुत्पत्तेः प्राक् तस्यासत्त्वात् , सत्त्वे वोत्पत्तिविरोधात् , न च निर्गुणमेव कार्य गुणोत्पत्तेः प्रागस्तीति वक्तव्यम् , गुणसम्बन्धवत्सत्तासम्बन्धस्याप्याचक्षणेऽभावेन तत्सत्त्वासम्भवात् । न चोत्पत्तिकाल एव सत्तासम्बन्धः, रूपादिगुणसमवायाभाव
१ उत्पन्नद्रव्यस्य क्षणं निर्गुणत्वनिष्क्रियत्ववन्निःसामान्यताया अपि दुरितैवेति भावः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420