Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 330
________________ : २७८ सम्मतितत्त्वसोपाने [ त्रिंशम् तस्तदाऽनुपलम्भे ततस्तत्सत्तासम्बन्धव्यवस्थापनासम्भवात् , ततो न कार्य तदाश्रयः, नाप्यगुस्तदाश्रयः, तस्य कार्यद्रव्यभूतस्याप्याश्रयतया कार्यकार्यभूतगुणयोरेकाश्रयताप्राप्तेः, न चेष्टापत्तिः, तयोः कुण्डबदरवदाश्रयाश्रयिभावेऽकार्यकारणभावप्रसङ्गात्, न वाऽयुतसिद्धयोस्तथा, अयुतसिद्ध्याऽऽश्रयायिभावविरोधात् , तथाहि अपृथसिद्ध इत्येनन भेदनिषेधः प्रतिपा5 द्यते समवायाभावेऽन्यस्यार्थस्यात्रासम्भवात् , आधाराधेयभाव इत्यनेन चैकत्वनिषेधः क्रियते इति कथमनयोरेकत्र सद्भावः । यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारमन्ते स्वात्मनोऽव्यतिरिक्तं तदा कार्यद्रव्यानुत्पत्तिप्रसक्तिः, न हि कार्यद्रव्ये परमाणुस्वरूपापरित्यागे स्थूलत्वस्य सद्भावः, तस्य तदभावात्मकत्वात् , तस्मात् परमाणुरूपतापरित्यागेन मृद्रव्यं स्थूल. कार्यस्वरूपमासादयति तद्रूपतापरित्यागेन च पुनरपि परमाणुरूपतामनुभवतीति वलय. 10 वत् पुद्गलद्रव्यपरिणतेरादिरन्तो वा न विद्यते इति न कार्यद्रव्यं कारणेभ्यो भिन्नम्, न चार्था न्तरभावगमनं विनाशोऽयुक्त इति तद्पपरित्यागोपादानात्मकस्थितिस्वभावस्य द्रव्यस्य त्रैकाल्यं नानुपपन्नम् । यथा चैकत्वसंख्यासंयोगमहत्त्वापरत्वादिपर्यायः परमाणूनामुत्पत्तेः कार्यरूपाः परमाणवस्तथा बहुत्वसंख्याविभागाल्यपरिमाणपरत्वात्मकत्वेन प्रादुर्भावात् पर माणवः कार्यद्रव्यवत् तथोत्पन्नाश्चाभ्युपगन्तव्याः। कारणान्वयव्यतिरेकानुविधानोपलम्भस्य 15 कार्यताव्यवस्थानिबन्धनस्यात्रापि सद्भावात् , तदाह तस्मादिति, एकपरिमाणाव्यात् विभक्तः विभागात्मकत्वेनोत्पन्नः अणुरिति अणुर्जातो भवति, एतदवस्थायाः प्राक् तदसत्त्वात् , सत्त्वे वेदानीमिव प्रागपि स्थूलरूपकार्याभावप्रसङ्गात् , इदानी वा तद्रूपता तद्रूपाविशेषात् प्राक्तनावस्थायामिव स्यात् । एवं चतुर्विधकार्यद्रव्याभ्युपगमोऽसङ्गतः, न च य एव कार्यद्रव्यार म्भकाः परमाणवः त एव तद्रव्यविनाशोत्तरकालं स्वरूपेण व्यवस्थिताः, कार्यद्रव्यप्रागभाव. 20 प्रध्वंसाभावयोरेकत्वविरोधात्, घटद्रव्यप्रागभावप्रध्वंसाभावमृत्पिण्डकपालवत् । न च प्राग भावप्रध्वंसाभावयोस्तुच्छरूपतया मृत्पिण्डकपालरूपत्वमसिद्धम् , तुच्छरूपाभावस्य प्रमाणाजनकत्वेन तदविषयत्वतो व्यवस्थापयितुमशक्यत्वात् । न च कपालसंयोगात् घटद्रव्यमुपजायते तद्विभागाच्च विनश्यतीति मृत्पिण्डस्य घटद्रव्यं प्रति समवायिकारणत्वमयुक्तमिति वाच्यम् , अध्यक्षत एव मृत्पिण्डोपादानत्वेन तस्य प्रतीतेः अत एव घटस्य कपालसमवायि25 कारणत्वानुमानमध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टम् । न चाल्प परिमाणतन्तुप्रभवं महत्परिमाणं पटकार्यमुपलब्धमिति घटादिकमपि तदल्पपरिमाणानेक २ यथा हि घटद्रव्यप्रागभावो मृत्पिण्डात्मको घटद्रव्यप्रध्वंसाभावश्च कपालात्मा, तयोरेकत्वं विरुद्धं तथैव परमाणोस्तादवस्थ्ये भाविकार्यद्रव्यप्रागभावात्मा भूतकार्यध्वंसात्मा स भवेत् , विरुद्धश्च तथाभ्युपंगम इति परमाणोः कथञ्चिन्निवृत्तिरभ्युपेयेति भावः ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420