SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सर्वोपयोगविचारः । पदुत्पत्तिवत् । ननु हेतौ सत्यपि श्रुताद्यावरणक्षयोपशमे श्रुताद्यनुत्पद्यमानमपि कदाचिद् दृष्टमित्यनैकान्तिको हेतु:, न श्रुतादौ क्षीणावैरणत्वस्य हेतोरभावात् श्रुतादेः क्षीणोपशान्तावरणत्वात् । भिन्नावरणत्वादेव च श्रुतावधिवन्नैकत्वमेकान्ततो ज्ञानदर्शनयोरेकदोभयाभ्युपगमवादेनैव ॥ ५९ ॥ यज्जातीये यो दृष्टस्तज्जातीय एवासावन्यत्राप्यभ्युपगमार्हो न जात्यन्तरे घूमवत् पाव- 5 केतरभावाभावयोः, अन्यथानुमानादिव्यवहारविलोपप्रसङ्गादित्याह भण्णइ खीणावरणे जह मइणाण जिणे ण संभवइ । तह वीणावरणिजे विसेसओ दंसणं नत्थि ।। ३० ।। भण्यते क्षीणावरणे यथा मतिज्ञानं जिने न संभवति । तथा क्षीणावरणीये विश्लेषतो दर्शनं नास्ति || छाया || भण्यत इति, यथा मतिश्रुतावधिमनः पर्यवज्ञानानि जिने न सम्भवतीत्यभ्युपगम्यते तथा तत्रैव क्षीणावरणीये ज्ञानोपयोगादन्यदा दर्शनं न सम्भवतीत्यभ्युपगन्तव्यम्, क्रमोपaritr मत्याद्यात्मकत्वात् तदभावे तदभावात् ॥ ६० ॥ क्रमवादिनो न केवलमनुमानविरोधोऽपि त्वागमविरोधश्चेत्याह सुत्तंमि वेव साई अपज्जवसियं ति केवलं वृत्तं । सुत्तामायण भीरूहिं तं च दव्वयं होइ ॥ ६१ ॥ :.230: सूत्रे चैच साद्यपर्यवसितमिति केवलमुक्तम् । सूत्रासातन भीरुभिस्तच्च द्रष्टयं भवति || छाया ॥ १ मतिश्रुतज्ञानावरणयोरेकदा क्षयोपशमेऽपि यथा तदुपयोगक्रमः तथा ज्ञानदर्शनावरणयोर्युगपत्येऽपि केवलिन्युपयोगक्रमः स्यादिति शंकाशयः ॥ २ श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन शब्दादौ प्रत्यक्षादिसामग्याः प्रतिबन्धकत्वेन च तत्सम्भव:, अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभाव प्रतिबध्यप्रतिबन्धकभावाद्यभावेन विशेष इति भावः ॥ ३ क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वादित्यर्थः । सामान्यविशेषोभयालम्बनकोपयोगत्वस्य चावग्रहाद्यात्मकत्सव्याप्यत्वात् केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यभिप्रायः तथा च केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिकं, तदेककालीन सामग्रीकत्वात् तादृशकार्यान्तरवदित्यनुमानप्रयोगः फलितः ॥ "Aho Shrutgyanam" 10 सूत्र इति, आगमे केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वमुक्तम, क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता स्यात्, अतः क्रमोपयोगवादिभिः सूत्रासा- 20 तनाभीरुभिः, ' केवलणाणे णं भंते ' इत्याद्यागमोक्तं पर्यालोचनीयं भवति, अत्र सूत्रासा तना सर्वज्ञाधिक्षेप द्वारेण, अचेतनस्य वचनस्याधिक्षेपायोगात् । न च द्रव्यापेक्षयाऽपर्यंत्र 15
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy