________________
सम्मतितत्वसोपाने
[ अष्टविंशम् । विषयि केवलं विशेषात्मकं वा भवेत् सामान्यात्मकं वा, आये नि:सामान्यविशेषप्राहित्वात् तेषां च तद्विकलानामभावानिर्विषयतया तदवभासिनो ज्ञानस्याभाव इत्यकिञ्चिज्ज्ञः सर्वज्ञस्ततो भवेत् । अथ सामान्यात्मकम् एवमपि विशेषविकलसामान्यरूपविषयाभावतो निर्विषयस्य दर्शनस्याप्यभावान्न किञ्चित् केवली पश्येत् , अथायुगपज्ज्ञानदर्शने तस्याभ्युपगम्येते तथापि 5 यदा जानाति न तदा पश्यति यदा च पश्यति न तदा जानातीत्येकरूपाभावेऽन्यतरस्याप्य.
भावात् पूर्ववदकिञ्चिज्ज्ञोऽकिश्चिदर्शी च स्यात् , उभयरूपे वा वस्तुन्यन्यतरस्यैव ग्राहकस्वात् केवलोपयोगो विपर्यस्तो वा भवेत् तथाहि यदुभयरूपे वस्तुनि सामान्यस्यैव ग्राहक तद्विपर्यस्तम् , यथा सांख्यज्ञानं, तथा च सामान्य ग्राहि केवलदर्शन मिति, तथा यद्विशेषाव
भास्येव तथाभूते वस्तुनि तदपि विपर्यस्तम् , यथा सुगतज्ञानम् , तथा च केवलज्ञानमिति । 10 यथा च सामान्यविशेषात्मक वस्तु तथा प्रतिपादितमनेकधा । होढदानमपि सूत्रस्यान्यथा
व्याख्यानांदुपपन्नम् , तथाहि न पूर्वप्रदर्शितस्तत्रार्थः किन्त्वयम्-केवलीमा रत्नप्रभा पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति न तैराकारादिभिः तुल्यं पश्यतीति, किमेवंग्राह्यम् , एवमित्यनुमोदना, ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकम् , तज्ज्ञानं साकार
भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति । इदञ्चोदाहरणमात्रं 15 प्रदर्शितम् , एवञ्च सूत्रार्थव्यवस्थितौ पूर्वार्थकथनमालदानमेव ।। ५८ ।।
आग़मेन योगपद्याभिधाय ज्ञानदर्शनयोरनुमानेनापि तयोस्तद्दर्शयितुमाह---
केवलणाणावरणक्खयजायं केवलं जहा णाणं । तह दंसणं पि जुजइ णियआवरणक्खयस्संते ॥ ५९॥
केवलज्ञानायरणक्षयजातं केवलं यथा झानम् । . तथा दर्शनमपि युज्यते निजावरणक्षयस्यान्ते ॥ छाया ॥ केवलेति, केवल ज्ञानावरणक्षये समुत्पन्नं यथा विशेषाव बोधस्वभावं ज्ञानं तथा तदैव दर्शनावरणक्षये सति सामान्यपरिच्छेदस्वभावं दर्शनमप्युपपद्यताम् , न ह्यविकलकारणे सति कार्यानुत्पत्तियुक्ता तस्यासत्कार्यताप्रसक्तेरितरत्राप्यविशेषतोऽनुत्पत्तिप्रसक्तेश्च । ज्ञान. काले दर्शनस्यापि संभवः तदुत्पत्तौ कारणसद्भावात् , युगपदुत्पत्स्यविकलकारणपदघटयुग
20
१ रत्नप्रभाकर्मकाकारादिनिरूपियावदन्यूनानतिरिक्तविष यताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्त. विषयताकदर्शनवान् केवलोति फलितोऽर्थः, रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञानं न तादृशं केवलिकर्तृकं दर्शन मिति वा ।।
"Aho Shrutgyanam"