SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सर्वोपयोगविचारः। अयश्यागमविरोधीति केषाश्चिन्मतमुपदर्शयन्नाह केई भणंति 'जाइया जाणइ तइया ण पासइ जिणो' त्ति। सुत्तमवलंबमाणा तित्थयरासायणाऽभीरू ॥ ५८ ॥ केचिद्भणन्ति 'यदा जानाति तदा न पश्यति जिन' इति । सूत्रमवलम्बमानास्तीर्थकराशातनाऽभीरवः ॥ छाया ॥ केचिदिति, केचित् यदा जानाति तदा न पश्यति जिन इति सूत्रमवलम्बमाना ब्रुवते, तथाहि — केवली गं भंते ! इमं रयणप्पभं पुढविं आयारेहिं पमाणेहिं हेअहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं पासइ ! हंता गोयमा ! केवलीणं' इत्यादिप्रज्ञापनासूत्रम् , अस्यार्थः-केवली सम्पूर्णबोधः णं इति प्रश्नोऽभ्युपगमसूचकः, भंते इति भगवन् ! इमां रत्नप्रभामन्वर्थाभिधानां पृथ्वीमाकारैः समनिम्नोन्नताभिः प्रमाणैयादिभिः 10 हेतुभिरनन्तानन्तप्रदेशिकैः स्कन्धैः संस्थानः परिमण्डलादिभिः परिवारैर्घनोदधिवलयादिभिः, यं समयं इति कालावनोरत्यन्तसंयोगे द्वितीया, यदा जानाति न तदा पश्यति, विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योपयोगश्च विशेषोपयोगान्तरितः तत्स्वाभाव्यादिति प्रश्नार्थः उत्तरन्तु हंता गोयमा ! इत्यादिकं प्रश्नानुमोदक, हंता इत्यभिमतस्यामंत्रणम्, गौतम इति गोत्रामंत्रणम् , प्रश्नानुमोदार्थ, पुनस्तदेव सूत्रमुच्चारणीयम् , हेतुप्रश्नस्य चात्रसूत्रे उत्तरम् 15 ' साकारे से णाणे अणागारे दसणे ' साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति अनाकारमतिक्रान्तविशेषं सामान्यालम्बिदर्शनम् । न चानेकप्रत्ययोत्पत्तिरेकदा निरावरणस्यापि, तत्स्वाभाव्यात, न हि चक्षुर्ज्ञानकाले श्रोत्रज्ञानोत्पत्तिरुपलभ्यते । न चावृतत्वात्तदा तदनुत्पत्तिः स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नावरणसद्भावः। सन्निहितेऽपि च द्यात्मके विषये विशेषांशमेव गृह्णन् केवली तत्रैव 20 सामात सर्वज्ञ इति व्यपदिश्यते सर्वविशेषज्ञत्वात्सर्वसामान्यदर्शित्वात्तु सर्वदर्शी । यच्चैवं व्याख्यायामकिञ्चिज्ज्ञत्वं केवलिनो होढदानञ्चेति दूषणं तन्न, यतो यदि तत् केवलं ज्ञानमेव भवेत् दर्शनमेव वा ततः स्यादकिञ्चिज्ज्ञता न चैवम् , आलदानमपि न सम्भवति यं समयमित्यायुक्तव्याख्याया सम्प्रदायाविच्छेदतोऽपव्याख्यानत्वायोगात् न च दुःसम्प्रदायो:यम, तदन्यव्याख्यातणामविसंवादात् 'जं समयं च णं समणे भगवं महावीरे' इत्या- 25 दावण्यागमेऽसकृदुच्चार्यमाणस्यास्य शब्दस्यैतदर्थत्वेन सिद्धत्वात्। ततो दुाख्यैषा यैः समकं यत्समकमिति भवतैव होढदानं कृतम् । एते च व्याख्यातारः तीर्थकरासादनाया अभीरवः तीर्थकरानासादयन्तो न विभ्यतीति यावत् , सा च न किञ्चिजानाति तीर्थकृदित्यधिक्षेपः, भन्यथोक्त तीर्थकृतैवमुक्तमित्यालदानम् । तथाहि यदि विषयः सामान्यविशेषात्मकस्तदा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy