SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ अष्टविंशम् दव्वढिओ वि होऊण दंसणे पजवाहिओ होइ । उवसमियाईभावं पडुच्च णाणे उ विवरीयं ।। ५६ ।। द्रव्यास्तिकोऽपि भूत्वा दर्शने पर्यायास्तिको भवति । औपशमिकादिभावं प्रतीत्य ज्ञाने तु विपरीतम् ॥ छाया । द्रव्यास्तिक इति, द्रव्यार्थरूप आत्मा चेतनालोकमात्रस्वभावो भूत्वा तदैव विशेषाकारोऽपि भवति, यदा हि विशेषरूपतयाऽऽत्मा सम्पद्यते तदा सामान्यस्वभावमपरित्यजन्नेव, विशेषाकारश्च विशेषावगमस्वभावं ज्ञानं, दर्शने सामान्यालोचने प्रवृत्तोऽप्युपात्तज्ञानाकारः, न हि विशिष्टेन रूपेण विना सामान्यं सम्भवति, तथा च औपशमिकक्षायिकक्षायौपशमि कादीन् भावानपेक्ष्य विशेषरूपत्वेन ज्ञानस्वभावाद्वैपरीत्यं सामान्यरूपतां प्रतिपद्यते, विशेष10 रूपः सम् स एव सामान्यरूपोऽपि भवति, न बस्ति सामान्यं विशेषविकलं वस्तुत्वात् , शिवकादिविकलमृत्त्ववत् । विशेषा वा सामान्यविकला न सन्ति, विशेषत्वात् , मृत्त्व. रहितशिवका दिवदिति ॥ ५६ ॥ अत्र च सामान्यविशेषात्मके प्रमेयवस्तुनि तदाहिनमाणमपि दर्शनज्ञानरूपं तथापि छद्मस्थोपयोगस्वाभाव्यात् कदाचिज्ज्ञानोपसर्जनो दर्शनोपयोगः कदाचित्तु दर्शनोपसर्जनो 15 ज्ञानोपयोग इति क्रमेण ज्ञानदर्शनोपयोगी,क्षायिके तु ज्ञानदर्शने युगपंद्वर्तिनी इति दर्शयन्नाह मणपजवणाणतो णाणस्स य दरिसणस्स य विसेसो। केवलणाणं पुण दंसणं ति णाणं ति य समाणं ॥ ५७ ॥ मन.पर्यवज्ञानान्तो ज्ञानस्य च दर्शनस्य च विश्लेषः । केवलशानं पुनदर्शन मिति ज्ञानमिति च समानम् ॥ छाया ॥ 20 मन इति, ज्ञानस्य दर्शनस्य च विश्लेषः पृथग्भावो मनःपर्यवज्ञानान्तः, मत्यादिषु चतुर्षु ज्ञानदर्शनोपयोगी क्रमेण भवत इत्यर्थः । तथाहि चक्षुरचक्षुरवधिज्ञानानि चक्षुरच. क्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मस्थोपयोगात्मकज्ञानत्वात्, श्रुतमनःपर्यायज्ञानवत् , वाक्यार्थविशेषविषयं श्रुतज्ञानं मनोद्रव्यविशेषालम्बनश्च मनःपर्यायज्ञानमेतद्यमपि अदर्शनस्वभावं मत्यवधिज्ञानदर्शनोपयोगाद्भिन्नकालञ्च सिद्धम् । केवलाख्यो बोधस्तु दर्शनमिति च ज्ञानमिति च समानं समानकालं द्वयमपि युगपदेवेत्यर्थः । एककालौ हि केवलिगतज्ञानदर्शनो. पयोगौ, तथाभूताप्रतिहताविर्भूततत्स्वभावत्वात् , तथाभूतादित्यप्रकाशतापाविव, यदैव केवली जानाति तदैव पश्यतीति सूरेरभिप्रायः ।। ५७ ।। १ क्रमोपयोगवादिनो जिनभद्रगणिक्षमाश्रमणपूज्यपादाः, युगपदुपयोगवादिनो मल्लवादिप्रभृतयः, यदेव केवलज्ञानं तदेव केवलदर्शन मिति सिद्धसेनदिवाकराः ॥ २ युगपदाविर्भूतस्वभावत्वादिति भावः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy