SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सोपानम् सर्वक्षोपयोगविचारः । विनाभावित्व ग्रहणे हेतोरयं समानो दोषः, यतोऽन्यथाऽनुपपन्नकलक्षणो हेतुरित्यस्माकं हेतुलक्षणम् , अन्यथानुपपन्नत्वञ्च तादात्म्यतदुत्पत्त्योः पूर्ववच्छेषवत्सामान्यतोदृष्टमित्येतेषान तथैकार्थसमवायि संयोगिसमवायीत्यादीनाश्च तथा वीतमवीतं वीतावीतं चेत्यादी नाश्च सर्वहेतूनां व्यापकम् , सति गमकत्वे सर्वेषामप्यन्येषां साध्याविनाभावित्वात् , तद्विकलानाञ्च गमकत्वायोगात् , तस्य च ग्राहकमूहः प्रत्यक्षानुपलम्भप्रभवः, तञ्चाविसंवादकत्वादनक्षजत्वा. 5. लिङ्गजत्वाच स्वार्थाध्यवसायरूपं मतिनिबन्धनमस्माकं प्रमाणान्तरम् , परैरपि प्रमाणान्तरः स्वेनावश्यमभ्युपगन्तव्यमन्यथा व्याप्तिग्राहकप्रमाणाभावतोऽनुमानस्याप्यप्रवृत्तिप्रसक्तः, एवञ्च प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे इति न वक्तव्यम प्रमाणान्तरस्यापि सत्त्वात् , शब्दस्य चाप्तप्रणीतत्वेन सामान्य विशेषात्मकबाह्यार्थविषयस्य प्रमाणान्तरत्वात् । अर्थापत्तेश्च प्रमान णत्वेनानुमानेऽन्तर्भावनं सिद्धसाधनमेव, अभावस्य च पृथगप्रामाण्यप्रतिपादनमस्मकमभी- 10 ष्टमेव, सदसदात्मकवस्तुतस्वग्राहिणाध्यक्षेण यथाक्षयोपशमं भावांशवदभावांशस्यापि ग्रहणात् । केवलं क्वचिदुपसर्जनीकृतसदंशस्य प्रधानतयाऽसदंशस्य ग्रहणं कचिञ्च वैपरीत्येन, न च सदंशासदंशयोरेकान्तेन भेदोऽभेदो वा, उभयात्मकतया जात्यन्तररूपस्य वस्तुनो विरो. धादिदोषविकलस्य सद्भावात् । उपमानादेरप्यविसंवादकस्य प्रमाणत्वे सर्वस्य परोक्षेऽन्त: भीवात् , अन्यसंख्याव्युदासेन प्रत्यक्षं परोक्षश्चेति द्वे एव प्रमाणे अभ्युपगन्तव्ये, अन्यथा 15 तत्संख्यानवस्थितेः । अविशदमविसंवादश्च ज्ञानं परोक्षम् । अत्र मतिश्रुतावधिमनःपर्यायकेवलज्ञानानां मध्ये मतिश्रुते मुख्यतः परोक्षं प्रमाणमवधिमन:पर्यायकेवलानि तु प्रत्यक्षं प्रमाणम् , मते: परोक्षप्रमाणता च मुख्य या वृत्त्या, संव्यवहारतस्तु विशदरूपस्य मतिभेदस्य प्रत्यक्षताभ्युपगतेवेति दिक् ।। ५५ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजय. लब्धिसूरिणा सङ्कलितस्य सम्मतितत्वसोपानस्य प्रमाणसंख्या निर्णयात्मकं नाम सप्तविंशं सोपानम् ॥ 20 25 - अथ सर्वज्ञोपयोगविचारः। सामान्यविशेषात्म के प्रमाणप्रमेयरूपे वस्तुतत्त्वे व्यवस्थिते द्रव्यास्तिकस्यालोचनमात्रं विशेषाकारत्यागिदर्शनं यत्तत्सत्यमितरस्य तु विशेषाकारं सामान्याकाररहितं यज्ज्ञातं तदेव पारमार्थिकमभिप्रेतम् , प्रत्येकमेषोऽर्थपर्याय इति वचनात् , प्रमाणन्तु द्रव्य पर्यायौ दर्शनज्ञानस्वरूपावन्योऽन्याविनिर्भागवर्तिनाविति दर्शयन्नाह - "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy