________________
:२३२ : सम्मतितत्त्वसोपाने
सप्तविंशम् अर्श्वभागवतामधोभागवताम्ब परमाणूनां स्वभावभेदात , सहभावाच एकसामग्र्यधीनताप्रतिबन्धकल्पनायां रूपादे रसादे रिवानुमानं कारणात् कार्यानुमानं प्रसक्तम् , समानकालभावि. नो हि रूपादेर्यद्रसतोऽनुमानं तत्कारणाद्रूपजनकादनुमितादनुमानम् । न च समानकालभावि
रूपजनकत्वानुमानं रसहेतोरेतदिति हेतुधर्मानुमानम् , कारणात्कार्यानुमानेऽप्येवं दोषाभावात् । 5 न चात्रैवं लोकप्रतीत्यभावदोषः, हेतुधर्मानमानेऽपि लोकप्रतीतेरभावात् । तथाविधरसोपल
म्भाद्धि तत्समानकालं. तथाविधं रूपं अर्वाग्भागदर्शनाच्च परभागं लोकः प्रतिपद्यते न पुनर्विशिष्टं कारणम् । अथाप्रतिबद्धादेकतोऽन्यप्रतिपत्तावतिप्रसङ्गः, न, अविनाभूतादन्यतोऽन्यप्रतिपत्त्यभ्युपगमात् । अथ प्रतिबन्धमन्तरेणान्यस्याविनाभाव एव कुतः, ननु
प्रतिबन्धोऽप्यपरप्रतिबन्धमन्तरेण कुतः, अथ प्रतिबन्धोऽपि न वास्तवः प्रतिबद्धयोरन्यः, 10 किन्तु कारणानन्तरमपरस्य कार्याभिमतस्य भावो वस्तुस्वरूपमेव, तच्च पूर्वोत्तरवस्तुस्वरूपग्रा
हिप्रत्यक्षानुपलम्भाभ्यां निश्चीयते, तन्निश्चयनमेव कार्यकारणभावप्रतिबन्धनिश्चयनम् , न, एवं प्रत्यक्षानुपलम्भाभ्यामन्येनान्यस्याविनाभावित्वनिश्चयेऽपि न दोषः । अथैकदा अन्येनान्यस्याविनाभावित्वदर्शनेऽपि सर्वदा सर्वत्रानयोरेवमेव भाव इति न दर्शनादर्शनाभ्यां निश्चेतुं
शक्यम् , प्रतिबन्धग्रहणे तु नायं दोषः, कर्पूरोर्णादीन्धनस्वभावानुकारिधूमस्वरूपप्राहिणा 15 विशिष्टाध्यक्षेण सकृदपि प्रवृत्तेनाग्निधूमयोः कार्यकारणभावनिश्चयात् सर्वदाऽनग्नि व्या
वृत्ताग्निजन्योऽधूमव्यावृत्तो धूम इति निश्चीयते, अन्यथाऽन्यदैकदाऽप्यग्नेमस्योत्पादो न भवेत् , अहेतोः सकृदप्यभावात् , भावे वा निर्हेतुकताप्रसक्तेः मैवम् , परपक्षे कार्यधर्मानुवृत्तेरेवायोगात् । एकदेशेन कार्यधर्मानुवृत्तौ कार्यस्य कारणरूपतापत्तेः कार्यकारणभावाभा
वप्रसङ्गात् । किश्च सर्वत्र सर्वदा अग्निजन्यो धूम इति न प्रत्यक्षमनुपलम्भसहायमपीयतो 20 व्यापारान् कत्तुं समर्थम् , सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च, तत्पृष्टभाविनोऽपि विक
ल्पस्य नात्रार्थे सामर्थ्यम् , तदर्थविषयतया तस्य गृहीतग्राहित्वेनाप्रामाण्याभ्युपगमात् । अनुमानमपि नैवं प्रतिबन्धग्राहकम् , अनवस्थेतरेतराश्रयदोषप्रसक्तः । न च भवत्पक्षेऽप्य
१ बौद्धानां मते कार्य हेतौ व्याप्तिप्रतिपत्तिः प्रत्यक्षानुपलम्भपञ्चकाजायते, परिदृश्यमानेष्यग्निधूमध्यतिरिफेषु भूतलादिषु प्रथमं धूमस्यानुपलम्भ एकः, ततोऽग्नरुपलम्भः पश्चाद्धमस्येत्युपलम्भद्वयम् , ततोऽग्ने. रनुपलम्भोऽनन्तरं धूमस्यापति द्वावनुपलम्भौ । अनुपलम्भोऽपि प्रत्यक्षविशेष एव । एवं पञ्चकेनकस्यामपि व्यक्ती कार्यकारणभावावगमो भवल्लग्नेः कार्य धूम इति । स्वभावहेतौ तत्प्रतिपत्तिश्च विपक्षे बाधकानुमानादिति, तदयुक्तं, प्रत्यक्षं सन्निहितमात्रविषयतयाऽविचारकतया च यावान् कश्चिद्धमः स सर्वो देशान्तरे कालान्तरऽग्निजन्मा, अन्यजन्मा वा न भवतीत्येतावतो व्यापारान् कतुमसमर्थमिति कथं व्याप्तिस्तद्विषयः स्यात् , प्रत्यक्षगृहीतमात्राध्यवसायितत्पृष्टभाविविकल्पोऽपि न सपिसंहारेण व्याप्तिग्राहक इति भावः ॥
"Aho Shrutgyanam"