SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] प्रमाणसंख्यानिर्णयः । समयेऽन्यत्र व्यवस्थितो धूमोऽन्यत्र व्यवस्थितेन वह्निना विनाऽनुपपन्न इत्यविनाभावः प्रतीतः, नापि तयोस्तथाविधः प्रतिबन्धः, न च प्रदेशव्यवस्थितं धूममुपलभमानोऽवश्यं यत्र यत्र धूमस्तत्राभिरिति तथा चेह धूम इति परामृश्यामिमानिति प्रत्येति, किन्तु परिज्ञाताविनाभावो धूमदर्शनानन्तरं प्रदेशेऽमित्रेति प्राक्तनानुभवदाढर्यात्स्मरति, असत्यत्र वह्नौ धूम एव न स्यादिति लिङ्गलक्षणाविनाभावानुस्मरणं प्रकृतस्मरणस्य तथाभावमन्तरेणाभाव इति प्रदर्श - 5 नार्थम् । अथात्राप्यन्यथानुपपन्नं स्वरूपं हेतोः क्वचिदनेन निश्वेतव्यम्, यत्र च तन्निश्चीयते स सपक्षः, पुनस्तथाविधरूपवेदिनां यत्रासौ हेतुस्तत्रैव ततो हेतोस्तदन्यप्रतिपत्तिरिति पक्षधर्मान्वयव्यतिरेकबलादेव हेतुर्गमक इति, तन्न, यतोऽविनाभावित्वरूपेणैव सपक्षे सत्त्वमत्राक्षिप्तमिति न रूपान्तरम् । तथा हि अविनाभावित्वं रूपं ज्ञातं सद्मकमिति तत्कचिज्ज्ञातव्यं तेन तद्रूपपरिज्ञानोपायत्वात् तदरूपं सदविनाभावित्वमेवैकं हेतोरूपं विधीयमानं स्वात्म - 10 भ्यन्तर्भावयति । ज्ञेयसत्ताया ज्ञानसत्ता निबंधनत्वात् ज्ञानं यथा न पृथग्रूपं तथा कचित्सपक्षे सत्त्वमप्यपश्यतस्तदविनाभाविरूपग्रहणाभाव इति तदैवैकं रूपं विधीयमानमन्यत्सर्वमाक्षिप तीति न तस्माद्धेतोरन्यद्रूपं युक्तम् । अथ तैर्विना तदेवैकं रूपं हेतोर्न ज्ञायत इति रूपान्तरं कल्प्यते तर्हि न केवलं सपक्षे सत्त्रं विना तद्रूपं न ज्ञायते किन्तु बुद्धीन्द्रियादिकमपि विना तन्न ज्ञायत इति तेषामपि तद्रूपताप्रसक्तिः । अत एव अपक्षधर्मस्यापि गमकत्वे चाक्षु- 15 त्वमपि शब्दे नित्यत्वस्य गमकं स्यादिति परोक्तमपास्तम्, यतश्चाक्षुषत्वमनित्यत्वाविनाभाव शब्दचक्षुषो न भवतीति कुतोऽत्र शेषावकाशः । यदपि यदि धूमोऽग्न्यविनाभावि - त्वमात्रादमिं गमयेत् महाम्बुराशौ किं न गमयेत् इति तदपि न युक्तम्, यतो नान्यदेशो धूमोऽम्भोनिधिपावकाविनाभावी सिद्ध:, तद्देशसाध्याविनाभावित्वात्तस्य । अत एव यद्यप्यन्यदेशस्थो हेतुर्नान्यदेशस्थ साध्या विनाभावी, तथाप्यपक्षधर्मोऽसौ गमको न भवतीत्यस्या - 20 स्य ज्ञापनार्थं पृथक् पक्षधर्मत्ववचनं लक्षणे विधेयमिति न वक्तव्यम्, साध्यान्यथानुपपन्नत्वैकरूपप्रतिपत्तेरेव तदर्थस्य लब्धत्वात् । एवं स्वभावै कार्यानुपलम्भकल्पनामन्तरेणाप्यन्यथानुपपत्तिमात्राद्धेतोर्गमकत्वोपपत्तेर्ना विनाभावस्त्रिसंख्येन हेतुना व्याप्तः, तथाहि वृक्षाच्छायानुमानं लोके प्रसिद्धम् । न च वृक्षस्तच्छायाकार्य सहभावित्वात् नापि स्वभाव:, स्वभावभेदोपलब्धॆः । एवं तुलादेर्नमनादुन्नामाद्यनुमानं चिन्तितम्, परभागवानिन्दुः, अर्वाग्भागवत्त्वाद्धादिवदित्यत्रापि न तादात्म्यं तदुत्पत्तिर्वा, पराभ्युपगमेन सम्भवति, I : २३१ : १ ननु अन्यथानुपपत्तिरविनाभाव इत्यत्र किं निमित्तं, उच्यते तादात्म्यतदुत्पत्तिरूपम्, स्वाभावहेतोहिं तादात्म्यं स्वसाध्याविनाभावे निबन्धनम्, यो भावो यदात्मा स कथं तदुत्सृजति, कार्यहेतोस्तु तदुत्पतिस्तत्र निबन्धनम्, कारणाधीनात्मलाभमेव हि कार्यम्, तत्कथं तदन्तरेण कापि स्यात् न चाभ्यामन्यो हेतुरस्ति, अनुपलब्धेः स्वभावहेतावनुप्रवेशादिति बौद्धाः ॥ "Aho Shrutgyanam" 25
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy