________________
: २३० :
सम्मतितत्व सोपाने
[ सप्तविंशम्
पक्ष एव हेतुरिति नैतद्धर्मो हेतु:, अभेदे धर्मधर्मिभावस्यानुपपत्तेः स्वलक्षणस्यान्यत्राननुगमान्नान्वयसिद्धिः, अतद्रूपपरावृत्तस्य तस्य हेतुत्वेऽपि स्वलक्षणपक्षभावी दोषस्तदवस्थ एव, अतद्रूपपरावृत्तेः स्वलक्षणादव्यतिरेकात्, व्यतिरेके अनुगतत्वे पारमार्थिकत्वे च सामान्यस्य भङ्गयन्तरेण हेतुत्वमभ्युपगतं भवेत्, कल्पनाविरचितस्य हेतुत्वे कुतः पक्ष5 धर्मता, कल्पनायाः परमार्थतो वस्त्वसंस्पर्शात् । न च परपक्षे पक्षधर्मत्वं सम्भवति, पक्षलक्षणस्यैवासम्भवात् न च जिज्ञासितविशेषो धर्मी पक्ष इति तल्लक्षणमस्तीति वाच्यम्, शब्देऽनित्यत्वं हि न वादी जिज्ञासितुमर्हति स्वनिश्चयवदन्येषां निश्चयोत्पादनाय तेन साधनप्रयोगात् । नापि प्रतिवादी, प्रतिपक्षप्रसाधनाय वायुक्तसाधनप्रतिघाताय च तस्य प्रवृत्तेः, नापि प्रानिकाः, तेषां विदितवेद्यतया तत्र जिज्ञासाऽसम्भवात् । तस्माद्यदन्तरेण 10 यनोपपद्यते तत्साधनमितरच साध्यमित्येतावदेव पचादिलक्षणमनवद्यम् । एवमेव प्रतिपिपादयतिविशेषो धर्मीयादिलक्षणं निरस्तं वेदितव्यम्, तदेवं त्रैलक्षण्यस्यासम्भवात्, सम्भवेऽपि सति साध्याविनाभावित्वमात्रेणैव हेतोर्गमकत्वान्न किञ्चित् पक्षधर्मत्वादिना रूपान्तरेण । तथाहि न कचित् धूमसत्ताऽमिं विना भाविनीति सिद्धमविनाभावित्वम्, तत्सिद्धौ च सत्यपि पक्षधर्मादिवचने तथैव गमकत्वम्, न हि वास्तवं रूपं साध्यावि15 नाभावित्वलक्षणं हेतोरुपलभ्यमानं पक्षधर्मत्वादिवचनेऽवचने वा स्वसाध्यं न साधयति, न हि वस्तुत्रलायातां स्वसाध्यप्रतिपादनशक्ति लिङ्गं पक्षधर्मत्वादिवचनादवचनाद्वा मुखति, वस्तुशक्तीनां वचनादव्यावृत्तेः । अथ त्रैलक्षण्यमपि हेतोः सम्भवति तदपि लक्षणत्वेन प्रकल्प्यते, सत्यं सम्भवति, किन्तु अविनाभावित्वेनैव हेतोः गमकत्वं सिद्धं न किञ्चित्तलक्षणवचनेन, यदूपानुवादेन हि हेतोः स्वरूपं लक्ष्यते तदेव लक्षणत्वेनानुवदितव्यमित्यविनाभावित्वरूपा20 नुषादमात्रेण हेतुलक्षणपरिसमाप्तेर्न पक्षधर्मत्वादि विधेयमनुवदितव्यं वा लक्षणत्वेन । सम्भवमात्रेणाभिधानेऽवाधितविषयत्वमपि तादृग्विधे हेतौ सम्भवतीति लक्षणान्तरत्वेन वच. नीयं स्यात् । न चाविनाभावित्वं सदपि पक्षधर्मत्वाद्यभावेऽगमकमिति वाच्यम्, व्याहतस्वात्, अविनाभावित्वं हि स्वसाध्येन विना तस्यासम्भव उच्यते, अगमकत्वन्तु विनापि साध्यं सम्भवस्तस्यैवेति परस्परं व्याहतिः । एव धर्ममात्रवचनेऽपि साधारस्यैवाविनाभावित्वं यथा कृतकत्वमनित्यत्वमन्तरेणानुपपद्यमानं कृतकत्ववत्स्वेव भावेषु व्यवतिष्ठते, न ह्यन्यत्र तत्कृतकत्वं नाप्यविनाभावीति कृतकत्वस्याविनाभावित्वमाक्षिप्तधर्मिस्वरूपमेवेति सामर्थ्यसिद्धम् | तेन नावश्यं तत्सत्त्वं वचनेन विधातव्यं धर्मोपरक्तधर्मिणि पृथक् पक्षधर्मत्ववचनमन्तरेणाप्यन्यथानुपपन्नत्वं कृतकस्यार्थस्य स्वरूपं जानानस्तदुपलभमान एव तदविनाभाविनमपरं स्वभावं झगिति अवगच्छति, यतो नानेन पूर्वमन्यथानुपपत्तिरूपनिश्चय
25
"Aho Shrutgyanam"