________________
सोपानम् । प्रमाणसंख्यानिर्णयः ।
: २२९ : शशशृङ्गादावनुपलम्भात् प्रवर्तिताभावव्यवहारोऽपि मूढः, अनुपलभ्यमानेऽपि प्रदेश विशेषे घटादौ यस्तं व्यवहार न प्रवर्तयति स निमित्तदर्शनात्तत्र प्रवर्त्यत इति भवत्येव शशशृङ्गादिरभावव्यवहारे साध्येऽनवस्थादोषविकलो दृष्टान्तः, तत्रानुपलम्भेनाभावव्यवहारस्य प्रवृत्तासस्यवहारशशशृङ्गादिदृष्टान्तबलात् प्रसाधनात्, प्रदेशविशेषे घटाभावस्य त्वध्यक्षसिद्धत्वादिति वाच्यं, घटाभावसिद्धिर्हि घटाभावनिर्णयः, तस्य सिद्धत्वेऽभावव्यवहारोऽपि सिद्धः, अभाव- 5 निर्णयाभावेऽभावव्यवहारायोगात् । न च विशेषप्रदेशे घटाभावं निश्चिन्वानोऽपि तच्छब्दादिकं कश्चिन्न प्रवर्तये दित्यनुपलम्भेन प्रवर्त्यत इति वाच्यम् , एवं हि भावं निश्चिन्वानोऽपि कश्चिच्छब्दं नोच्चारयेदिति तत्प्रवर्तनाय हेत्वन्तरं मृग्यं स्यात् , ततो घटादावप्यभावस्य साधनाय दृष्टान्तान्वेषणे तत्राप्यभावो यदि दृष्टान्तान्तरात् सिद्धः तदा सैवानवस्था । अथ तत्र साध्याविनाभूतादनुपलम्भादेर्लिङ्गाद् दृष्टान्तान्तरमन्तरेणाप्यभावनिर्णयः शब्दादिव्यवहारस्य 10 च प्रवृत्तिः तर्झनुपलब्धान्वयमन्तरेणापि गमकत्वमविनाभावमात्रात् कथं नाभ्युपगतं भवेत्। एतेन व्यतिरेकम्यान्वयेन विनाभावादगमकाङ्गतेत्यपास्तम् । ननु साध्याभावे सर्वत्र साधनाभावो व्यतिरेकः, साधनसद्भावेऽपि साध्यसद्भावाभावे व्यतिरेक एव न भवेन् , साधना. भावेन साध्याभावस्याव्याप्तत्वात् , य एव च साध्यसद्भाव एव साधनसद्भावः स एवान्वयः, स च दृष्टान्तधर्मिणमन्तरेणापि साध्यधर्मिण्यपि विपर्यये बाधकप्रमाणबलान्निश्चीयमानः 15 कथमसन , न चैवं सति पक्षत्वेनेच्छाव्यवस्थितलक्षणेन तत्र पारमार्थिकस्य सपक्षत्वस्य बाधा, अन्यथा साध्यधर्मिण्येव हेतुरविद्यमानसाध्यधर्मे वर्तमानो विरुद्धः स्यादिति तत्र तयुक्त एव वर्तमानः कथं न सपक्षवृत्तिरिति यत्र व्यतिरेकसद्भावस्तत्रावश्यमन्वयः यत्रासौ तत्र चावश्यम्भावी व्यतिरेक इति नैकसद्भावे द्वितीयस्याभाव इति चेन्नन्वेमपि जाता समुद्रवृद्धिः शशाङ्कोदयादित्यादिप्रयोगेषु हेतोः पक्षधर्मत्वाभावेऽपि गमकत्वोपलब्धेन 20 पक्षधर्मत्वं तल्लक्षणम् , न च कालस्य देशस्य वा पक्षता, लोकस्य साध्यान्यथानुपपन्नहेतुप्रदर्शनमात्रादेव पक्षधर्मवाद्यनुस्मरणमन्तरेणापि साध्यप्रतिपत्ति दर्शनालक्षण्यस्य तन्त्र सतोऽप्यकिश्चित्करत्वात् । न च सौगताभ्युपगमेन पक्षधर्मता हेतोः सम्भवति सामान्यस्यावस्तुतयाऽभ्युपगतस्य हेतुत्वे शशशृङ्गादेरिव पक्षधर्मताऽसम्भवात् , स्वलक्षणस्य च हेतुत्वे
१शकटोदयाद्यनुमाने कृत्तिकोदये पक्षधर्मता सम्भवति. न च कालाकाशादि भविष्यच्छकटोदादिमत्. कृत्तिकोदयादिमत्त्वादिति प्रयोगेण पक्षधर्मता विद्यत इति वाच्यम्. तथा सत्यपक्षधर्महतोरप्रसिद्धेः, न च प्रासादधावल्ये साध्य काकस्य काय हेतुरपक्षधर्म इति वाच्यम् , जगत: पक्षत्वसम्भवात् , लोकविरोधस्तुल्य उभयत्र, तन्न पक्षधर्मता गमकत्वाङ्गम् , अनित्यः शब्दः श्रावणयादित्यादौ सपक्षवाभावेऽपि गमकत्वात्तदपि नाङ्गम् , नापि विषक्षेऽसत्वं तदङ्गम् , तत्पुत्रलस्यापि गमकत्वप्रसङ्गात् किन्तु सर्वत्रान्ताप्तिरेव गमकतामिति तत्सद्भावे किं त्रैलक्षण्यादिति भावः ॥
"Aho Shrutgyanam"