SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सम्मतितरवसोपाने [ सप्तविंशम् त्वेनाभावज्ञानजनकत्वायोगात, वस्त्वेव हि कार्यमुत्पादयति नावस्तु, सर्वसामर्थ्य विकलत्वात्, अन्यथा तस्यापि भावरूपताप्रसक्तिः । द्वितीयपक्षेऽपि यत्तदन्यज्ञानं प्रत्यक्षमेव तत् प्रमाणम्, पर्युदासवृत्त्या च तदेवाभावप्रमाणशब्दवाच्यतामनुभवति, तथाविधेन च तेन तदन्यभावलक्षणो भावः परिच्छिद्यत एव । यत्पुनरिह घटो नास्तीति ज्ञानं तत् प्रत्यक्ष सामर्थ्यप्रभवत्वा5 स्मृतिरूपतामासादयन्न प्रमाणम्, तथा हि सकलत्रैलोक्यव्यावृत्त पदार्थ सामर्थ्योद्भूततदाकारदर्शनानन्तरं विकल्पद्वयमिदमत्रास्ति, इदं नास्तीति दर्शनसामर्थ्य भावि तद्गृहीतमेवार्थ मुल्लिखदुपजायते, तत्र दर्शनमेव भावाभावयोः प्रतिपादकत्वात् प्रमाणं न तु विधिप्रतिषेधविकल्पौ, गृहीतग्राहित्वात्, अन्यभावलक्षणस्य भावाभावस्याध्यक्षेणैव सिद्धत्वात्, व्यवहार एवान्योपलब्ध्यापि साध्यते स्वयमेव वा नास्तीह घट इति विकल्पयति, न च तावता प्रमाणान्त10 रत्वम्, यथास्यैव विकल्पनात् । सकलत्रैलोक्यव्यावृत्तस्वरूपस्याध्यक्षेण ग्रहणेऽपि य एव निराकर्तुमिष्टो घटादिकोऽर्थः स एव व्यवच्छिद्यत इति । तृतीयपक्षे त्वसम्भव एव, आत्मनोऽ भावात्, भावेऽपि तस्य ज्ञानाभावे कथं वस्त्वभावावेदकत्वं वेदनस्य ज्ञानधर्मत्वात्, ज्ञानविनिर्मुक्तात्मनि च तस्याभावात् तस्मात् प्रमाणपञ्चकाभावो ज्ञानविनिर्मुक्तात्मलक्षणश्वाभावः प्रमाणं न भवति, तदन्यज्ञानलक्षणश्चाभावः प्रत्यक्षमेवेति न प्रमाणान्तरमभावः, 15 तस्मात् प्रत्यक्षानुमाने द्वे एव प्रमाणे इति सौगतमतम् । अत्रोच्यते, त्रिलक्षणयोगिलिङ्ग नानुमापकम्, त्रिलक्षणे हेताववश्यन्तयाऽविनाभावसद्भावे नियमाभावात् तत्पुत्रत्वादेबैलक्षण्येऽपि गमकत्वादर्शनात् । न वा यत्राविनाभावित्वं तत्र वैलक्षण्यमवश्यम्भावीति नियमः, सर्वमनेकान्तात्मकं क्षणिकं वा सत्त्वादिति साधयतः कचिदन्वयाभावेऽपि सत्त्वस्यानेकान्तात्मकत्वेन क्षणिकत्वेन वा विनाऽनुपपत्या गमकत्वदर्शनात् । तथा परिणामी ध्वनिः क्षणिको 20 वा श्रावणत्वादित्यत्रापि न कचिदन्त्रयसद्भावः, न चानित्यत्वमन्तरेण श्रावणत्वं सम्भवति नित्यस्य श्रावणज्ञानजनकत्वासम्भवात्, यस्मिन् सत्येव यद्भवति यदभावे च यन्न भवत्येव कथं न तत्तस्य गमकं भवेत् । तथा सर्वोऽपि धूमोऽग्निमन्तरेण न कदाचित्प्रभवतीति व्याप्तिसाधने नान्वयः सम्भवति, तदसिद्धौ च कुतोऽभिमतप्रदेशे धूमादग्निनिश्चयोऽतस्त्रिलक्षणपरिकल्पनायां व्याप्तिनिश्चयस्य सर्वत्रासम्भवात् कार्यस्वभाव हेतुद्रयस्यापि गमकत्वं न स्यात् । 25 तथा नास्तीह घट उपलब्धि प्राप्तस्यानुपलब्धेरित्यत्रापि दृष्टान्ताभावान्नान्वयः सिद्धः, शशशृङ्गादिदृष्टान्तस्वीकारे तत्रापि व्याप्तिनिश्चयाय दृष्टान्तान्तरकल्पनायामनवस्थाप्रसक्तेः । न च : २२८ : १ यद्यस्य विपक्षेऽपि वर्त्तते न तत्तस्य लक्षणम्, यथा सत्त्वं वहेः हेत्वाभासे च विपक्षे वर्त्तते रूपत्रयम्, तस्मान्न हेतोस्तल्लक्षणम् । न चान्यथाऽनुपपत्तिमत्रैरूप्यं हेतुलक्षणं न तु वैरूप्यमात्रं तच हेत्वामासे न सम्भवतीति वाच्यम्, त्रैरूप्यकल्पना वैयर्थ्यात्, अन्यथानुपपत्तिनियमादेव गमकत्वोपपत्तेरिति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy