SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सोपानम् । प्रमाणसंख्यानिर्णयः । :२२७ । ज्ञानं कथं प्रमाणान्तरं भवेत् , यदेतद्विषाणित्वादिसादृश्य पिण्डेऽस्मिन्नुपलभ्यते मया तद्गव्यप्युपलब्धमिति हि स्मरति ततश्च गवि अनेन पिण्डेन सदृशो गौरिति गवि विषाणित्वादि. सादृश्यप्रतिसन्धान जायत इति । तथा नैयायिकोक्तमप्युपमान प्रमाणं न भवति, यथा गौः तथा गवय इति वाक्यागोसदृशार्थसामान्यस्य गवयशब्दवाच्यताप्रतिपत्त्याऽनधिगतार्थगन्त. स्वाभावात् , अन्यथा विसदृशमहिषाद्यर्थदर्शनादपि अयं स गवय इति संज्ञासंज्ञिसम्बन्ध- 5 प्रतिपत्तिः स्यात् । तस्माद्यथा कश्चिद् योऽङ्गदी छत्री कुण्डली स राजेति कुतश्चिदुपश्चत्याङ्गदा. दिमदर्थदर्शनादयं स राजेति प्रतिपद्यते, न चासौ प्रतीतिः प्रमाणम् , उपदेशवाक्यादेवाङ्गदादिमतोऽर्थस्य राजशब्दवाच्यत्वेन प्रतिपन्नत्वात्तथेहापि यथा गौस्तथा गवय इत्यतिदेशवाक्यात्सम्बन्धमवगत्य गवयदर्शनात्संकेतानुस्मरणे सत्ययं स गवयशब्दवाच्योऽर्थ इति प्रतिपत्तेरप्रमाणमुपमानम् । अतिदेशवाक्यात्सम्बन्धप्रतिपत्तेरनभ्युपगमे पश्चादपि सा न स्यात्, अन्य- 10 निमित्ताभावात्, दृश्यते चातो गृहीतग्रहणान्ने प्रमाणम् । न च तदानीं सामान्यतः प्रतिपतावपि गवयदर्शनानन्तरं गवयविशेषं तच्छन्दवाच्यतया पूर्वमप्रतीतं प्रतिपद्यत इति न गृहीतग्राहितेति वाच्यम् , सन्निहितगवयविशेषविषयस्य ज्ञानस्य प्रत्यक्षतयोपमानत्वानुपपत्तेः, गवयदर्शनोत्तरकालभावि तु अयं स गवयशब्दवाच्योऽर्थ इत्ति यज्ज्ञानं तत् प्रत्यक्षबलोत्पन्नस्वात्स्मृतिरेव न प्रमाणमिति । प्रत्यक्षादिप्रमाणप्रसिद्धोऽर्थो येन विना नोपपद्यते तस्यार्थस्य 15 प्रकल्पनमर्थापत्तिरिति हि भवद्भिरर्थापत्तेर्लक्षणमुच्यते तन्न युज्यते, अग्नेहि दाहकत्वेन विनाऽग्नित्वं नोपपद्यत इति तदादाहकत्वं परिकल्प्यते यदि तयोः कश्चित्सम्बन्धो भवेत्, असति चतत्र सत्यप्यग्नौ दाहकत्वस्याभावोऽसत्यपि च भाव इति कथं दाहकत्वमन्तरेण वहेरभावसिद्धिरिति दाहकत्ववददाहकत्वमपि कल्पनीयं स्यात् । अतः सम्बन्धे निश्चिते सति एकमविनाभूतं सम्बन्धिनमुपलभ्य द्वितीयस्य सम्बन्धिनः प्रकल्पना युक्तिमती, एवञ्चकल्पनेऽ 20 नुमानत्वमेव, सम्बन्धनिश्चयपूर्वकत्वादेकस्माद् द्वितीयपरिकल्पनस्य, कृतकत्वदर्शनपूर्वकानित्यत्वानुमानवत् । सम्बन्धश्चार्थापत्तिप्रवृत्तेः प्रागेव तयोः प्रतिपत्तव्यः, एवं ह्यापत्त्युत्था. पकस्यार्थस्यानन्यथाभावोऽर्थापत्तेराश्नयः सिद्धो भवेत् । न च प्रकल्प्यमानार्थानन्यथाभवनमर्थापत्युत्थापकस्यार्थस्यार्थापत्तिप्रवृत्तिकाल एव सिद्धमित्यनुमानादर्थापत्तेर्भेद इति वाच्यम् , यदि हि प्रमाणान्तरात् प्रतिपन्नं तदन्यथाभवनमर्थापत्तेराश्नयस्तदाऽनुमानेऽन्तर्भावः, अथ न 25 सिद्धं तदा नापत्तिप्रवृत्तिरतिप्रसङ्गात्। अभावोऽपि त्रिप्रकारो भवद्भिरुच्यते प्रमाणपश्चका. भावः, तदन्यज्ञानं ज्ञानविनिर्मुक्त आत्मा वेति, तत्र प्रथमो निरुपाख्यत्वान्न किश्चिदिति कथं प्रमेयाभावं परिच्छिन्द्यात्, परिच्छित्तीनधर्मत्वात् । न च प्रमाणपञ्चकाभावो वस्त्वभावविषयज्ञानं प्रमाणं जनयन्नुपचारादभावाख्यं प्रमाणमुच्यत इति वाच्यम् , तस्यावस्तु "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy