SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने | सप्तविंशम् । अथ प्रमाणसंख्यानिर्णयः।। अत्र प्रत्यक्षानुमानलक्षणे द्वे एव प्रमाणे, परोक्षोऽर्थो हि न स्वत एव तदाकारोत्पत्त्या प्रतीयते, प्रमाणेन तस्यापरोक्षत्वप्रसक्तेः, विकल्पमात्रस्य च स्वतंत्रस्य राज्यादिविकल्पवद. प्रमाणत्वात् , सदप्रतिबद्धस्यावश्यन्तया तव्यभिचाराभावात् । न च स्वसाध्येन विना5 भूतोऽर्थो गमकः अतिप्रसक्तेः, धर्मिसम्बन्धानपेक्षस्यापि गमकत्वे प्रत्यासत्तिविप्रकर्षाभावात् सर्वत्र प्रतिपत्तिहेतुर्विकल्पो भवेत् ,यञ्चाप्रत्यक्षस्यार्थस्य प्रतिपत्तौ स्वसाध्येन धर्मिणा च सम्बद्धं प्रमाणं तदनुमानमेव तस्यैवलक्षणत्वात् , तथा च प्रयोगः, यदप्रत्यक्षं प्रमाणं तदनुमानान्तभूतं यथोभयसम्मतलिङ्गबलभावि, अप्रत्यक्षप्रमाणश्च शाब्दादिप्रमाणान्तरत्वेनाभ्युपगम्यमानमिति स्वभावहेतुः । यच्च यत्रान्तर्भूतं तस्य न ततो बहिर्भावः यथा प्रसिद्धान्तर्भावस्य कचित् 10 कस्यापि, अन्तर्भूतं चेदं सर्व प्रत्यक्षादन्यत् प्रमाणमनुमान इति विरुद्धोपलब्धिः, अन्तबहि वयोः परस्परपरिहारस्थितिलक्षणतया विरोधादिति सौगताः । शाब्दोपमानार्थापत्यभावा अपि प्रमाणान्तराणि, प्रत्यक्षावगतप्रतिबद्धलिङ्गाप्रभवत्वादिति मीमांसकाः, तन्नेति सौगताः, शाब्दस्य त्रैरूप्यराहित्येन ता दृग्विषयाभावादनुमानेऽन्त र्भावासम्भवे शाब्दज्ञानस्य प्रामाण्यमेव न स्यात् , शब्दस्यार्थेन प्रतिबन्धाभावात् , न हि 15 शब्दोऽर्थस्य स्वभावः, अत्यन्तभेदात् , नापि कार्य तेन विनापि भावात् । न च तादात्म्य तदुत्पत्तिव्यतिरिक्तः सम्बन्धो गमकत्वनिबन्धनमस्ति । न च सङ्केतबलाद्वास्तवप्रतिपत्तियुक्तानां शब्दानामर्थप्रकाशकत्वं सम्भवति न च सङ्केतेन व्यवस्थितार्थप्रतिपादनयोग्यता शब्दस्याभिव्य. ज्यते,पुरुषेच्छा यशादन्यत्रार्थे शब्दस्य सङ्केतादप्रवृत्तिप्रसक्तेः, दृश्यते च पुरुषेच्छावशादन्यत्रापि विषये शब्दानां प्रवृत्तिः, ततो न बाह्याथै शब्दानां प्रामाण्यम् , प्रतिबन्धाभावात् । उपमा. 20 नमपि न प्रमाणमपूर्वार्थाधिगन्तृत्वाभावात् , तस्य हि सादृश्य विशिष्टो गौस्तद्विशिष्टं वा सादृश्यं विषयो भवता उक्तः, न हि सामान्यं तद्योगो वा वस्तु सम्भवति, तद्बाहकप्रमाणाभावात् , सम्भवेऽपि परैस्तस्य प्रत्यक्षविषयत्वाभ्युपगमादुपमानस्य तद्गोचरत्वे गृहीतार्थनाहित्वेन प्रामाण्यं न सम्भवत्येव । तथा येन प्रतिपत्रा गौरुपलब्धो न गवयः, न चातिदेश. वाक्यं गौरिव गवय इति श्रुतम् तस्याटव्यां पर्यटतो गवयदर्शने प्रथमे उपजाते परोक्षगवि 25 सादृश्यज्ञानं यदुत्पद्यते अनेन सदृशो गौरिति तदुपमानमिति भवद्भिरभ्युपगम्यते तस्मात १ शाब्दो हि नानुमानं त्रिरूपलिङ्गजन्यत्वाभावात् , न हि शब्दः पक्षधर्मः, धर्मिणोऽयोगात् , नार्थी धर्मा तेन तस्य सम्बन्धासिद्धेः, अर्थस्य धर्मित्वेऽपि तत्सामान्यस्य यदि साध्यता तदा तस्य धर्मिज्ञानकाल एव सिद्धत्वाव्यर्थ तत्साधनम् , शब्दस्य धर्मित्वेऽर्थस्य साध्यत्वे शब्दस्य हेतुतायो प्रतिज्ञार्थकदेशता स्यात् , शब्दत्वन्तु नगमकं, व्यभिचारात् , तदभावाच, अत एव न भवादिशब्दत्वमपि हेतुरिति न त्रिरूपहेतुः कश्चिदस्तीति भावः। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy