________________
सोपानम् ]
अनुमानविचारः । परामर्शविशिष्टाल्लिङ्गाद्भविष्यति कार्यमित्यनुमेयप्रतिपत्तिः, न चोत्पादकाल एव कार्यस्य प्रत्यक्षता, तदा तत्र रूपाद्यभावादिति वाच्यम् , ईशप्रक्रियायाः प्रमाणबाधितत्वेनासिद्ध्या तदोषस्य दुर्वारत्वात् । अस्वसंविदितविज्ञानाभ्युपगमवादिनां प्रदर्शितन्यायेन उन्नतत्वादिधर्माद्यसिद्धेः, अवयविसंयोगविशेषणविशेष्यभावादीनाश्च पराभ्युपगमेनासिद्धेहेतोराश्रयस्वरूपदृष्टान्तासिद्धिदोषा वाच्याः, न हि कार्याभावात् कारणमात्रस्याभावसिद्धिरिति । संदिग्धव्यतिरेको हेतुः, अप्रतिरुद्धसामर्थ्यस्य कारणविशेषस्याभावसिद्धावपि नाप्रतिरुद्धसामर्थ्यत्वं कारणस्य ज्ञातुं शक्यम् , ज्ञप्तौ वा कार्यस्यैव तदा प्रत्यक्षता स्यात् । तथाऽवय. विरूपो नदीविशेषोऽप्यसिद्ध उभयतटव्यापित्वादिकस्तु संयोगविशेषत्वात्तदभावाखेतुरप्यसिद्धः । तथाऽकार्यकारणभूतस्यास्वभावभूतस्य च लिङ्गस्य गमकत्वेऽविनाभावनिमित्तस्य तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धस्याभावेऽपि गमकत्वाभ्युपगमात् सर्वस्य सर्व प्रति गम- 10 कत्वापत्तिः । न चासत्यपि जन्यजनकभावे तादात्म्ये वा स्वसाध्येनैव लिङ्गस्याविनाभावो नान्येनेत्यत्र नियामकं स्वभावातिरिक्तं किश्चिदस्ति, स च स्वभावो यद्याकस्मिकस्तदा स सर्ववस्तूनां स्यात् , न तु कस्यचित् , न ह्यहेतोदेशकालनियमो युक्तः । तस्माद्येना विनाभूतं यद् दृश्यते तेन तस्य तत्त्वचिन्तकैरव्यभिचारनिबन्धनं वाच्यम्, तच्च यथोक्तादन्यदव्यभिचारनिबन्धनं नोपपत्तिमत् । न च तादात्म्यतदुत्पत्तिव्यतिरेकेण हेतोः पक्षधर्मतापि 15 सम्भवति, संयोगादीनामसिद्धः। एवं दृष्टान्तधर्मिणि प्रत्यक्षेण सामान्यरूपतया साध्यसाधनयोः प्रतिबन्धग्रहणेऽपि नानुमानस्योत्थान सम्भवति, साध्यधर्मिणि हेतोः साध्यधर्मेणाविनाभूतत्वाग्रहणात्, अन्यथा लोहलेख्यं वनं पार्थिवत्वात् काष्टवादित्यत्रापि साध्यप्रतिपत्तिर्भवेत् , दृष्टान्तधर्मिणि पार्थिवत्वलोहलेख्यत्वयोरध्यक्षतः प्रतिपत्तेः । न चात्राध्यक्षबाधा, बाधाविनाभावयोविरोधात् , अविनाभावयुक्तेऽध्यक्षबाधाऽयोगात् । न च 20 तत्राबाधितत्वं नास्तीति वक्तव्यम् , तस्याविसंवादित्वप्रतिपत्तिमन्तरेण ज्ञातुमशक्तेः । न च सर्वोपसंहारेणाध्यक्षं दृष्टान्तधर्मिणि प्रवृत्तमप्यविनाभावगमकम् , अध्यक्षस्य निखिलदेशकालसाध्यसाधनावभासनसामर्थ्यविरहात्, न च मानसं सर्वोपसंहारेण तद्राहकम् , तस्याविशदत्वात , विशदावभासस्य तदवगतिस्वभावत्वात् , तस्मात्तादात्म्यतदुत्पत्तिव्यवस्थापकमेव प्रमाणं सकलोपसंहारेण व्याप्तिव्यवस्थापकमिति त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानमिति ।। 25
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलधिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपास्यानुमानविचा
रात्मकं नाम षड्विंशं सोपानम् ।।
"Aho Shrutgyanam"