SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सम्मतितरवसोपाने : २९४ : [ षड्विंशम् स्यात्, कारणाच यदि प्रतिबद्धसामर्थ्यात् भाविकार्यास्तित्वं साध्यते तदाऽनैकान्तिकत्वं हेतोः, न ह्यवश्यं कारणानि तद्वन्ति भवन्ति, प्रतिबन्धवैकल्यसंभवात्, मैवम्, कार्यस्य धर्मित्वेनाकरणात्, किन्तु कारणस्यैव मेघादेर्धर्मित्वं क्रियते स च सिद्ध एव तत्रैव वृष्टयुत्पादकत्वं धर्मः साध्यते तद्धर्मेणोन्नतत्वादिना । मेघत्वजातियुक्तानां धर्मित्वं भविष्यष्ट5 ष्टयुत्पादकत्वं साध्यो धर्मः उन्नतत्वादिकं हेतुः धर्मिणो धर्मयोश्च भिन्नत्वान्न प्रतिज्ञार्थकदेशता । उन्नतत्वादिधर्मविशिष्टमेघस्य कारणत्वेन तद्धर्मेण भविष्यदृष्टयुत्पादकत्वस्यानुमाने वृष्टेरप्यनुमानात् कारणात्कार्यानुमानमित्युच्यते, विशिप्रोन्नतत्वादेर्धर्मस्य गमकत्वेन न कारणात् कार्यानुमानमनैकान्तिकम्, न च विशेषोऽसर्वज्ञदुर्ज्ञेय इति वाच्यम्, सर्वानुमानोच्छेदप्रसक्तः, मशकादिव्यावृत्तधूमादीनामपि स्वसाध्याव्यभिचरितत्वमसर्वविदा नह 10 निश्चेतुं शक्यम् | कार्यात् कारणानुमानं शेपवत्, अत्रापि कार्यगत एव साधनधर्मः कश्विदुक्त:, तेन च धर्मान्तरमप्रत्यक्षं वृष्टिमद्देश संबंधित्वादिकं कार्यगतमनुमीयते नदीशब्दवाच्यो गर्तविशेषो धर्मी तस्योपरिवृष्टिमद्देशसम्बन्धित्वं साध्यो धर्मः, उभयतटव्यापित्वादिकस्तु साधनधर्मः, अनेकफलफेन समूहवत्र शीघ्रतरगमनस्त्रकलुषत्वादिश्च तस्य विशेष: साध्याव्यभिचारी यदा निश्चितो भवति तदा गमकत्वं नोभयतटव्यापित्वमात्रं तोयस्य । सामान्यतो 15 दृष्ट कार्यकारणभूतेन लिङ्गेन यत्र लिङ्गिनोऽवगमः, अविनाभावित्वं त्रयाणामप्यविशिष्टम् । विवश्चित्तसाध्यसाधनापेक्षयाऽकार्यकारणभूतत्वा दिकस्तस्य विशेषः, अन्यत्र दृष्टश्यान्यत्र दर्शनं व्रज्यापूर्वकं यथा देवदत्तादेः, तथा चादित्यस्यान्यवृक्षोपरि सम्बन्धितया निर्दिश्यमानस्यान्यपर्वतोर्ध्वभागसम्बन्धितया निर्देशो दृष्टः, तेन च गत्यविनाभाविना भाव्यम् । अन्यत्र दर्शनस्य च न गतिकार्यत्वम्, गतेर्विभागादिकार्यजनकत्वात् । अन्यत्रदर्शन धर्मि, गत्यविना20 भूतमिति साध्यो धर्मः, अन्यत्र दर्शनशब्दवाच्यत्वात्, देवदत्तान्यत्र दर्शनवत् । तृतीयमतेऽ प्येवमेव व्याख्यानं व्यवच्छेदोऽपि पूर्ववदेव पूर्वव्याख्याने तत्पूर्वकं त्रिविधमिति लक्षणं पूर्ववदादयस्तु त्रिप्रकारलिङ्गविशेषणार्थाः । अत्र तु सर्वमेतदनुमानलक्षणमिति विशेष इति दिशानिरूपितं तन्मतम्, तदेतत्सर्वं तदुक्तलक्षणलक्षितप्रत्यक्षस्य प्रमाणत्वासिद्ध्या निरस्तम्, तत्पूर्वकत्वस्यानुमानलक्षणस्यासम्भवात् । कारणात् कार्यानुमानमपि न युक्तम्, 25 अप्रतिरुद्धसामर्थ्यात् कारणात् कार्यार्थ्यानुमाने तथाभूतकारणदर्शनसमय एव कार्यस्योत्पत्तेरनन्तरसमये तस्याध्यक्षतादोषस्याविचलितरूपत्वात् प्रतिबन्धाद्यनुस्मरणवैयर्थ्यापत्तेः । न च नास्त्यध्यक्षतादोषः, तथाहि निष्पाद्ये पटेऽनुत्पन्नावयवक्रियस्य अन्त्य तन्तोर्यदा क्रियातो विभागस्तदाऽविनाभावसम्बन्धस्मृतिः, ततो विभागात् पूर्वसंयोगनाशः तन्त्वन्तरेण संयोगोत्पत्तिर्यदैव तदैवाविनाभावसम्बन्धस्मरणात् परामर्शज्ञानम् यदा संयोगात्कार्योत्पादस्तदैव " Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy