________________
सोपानम् )
अनुमानविचारा। अविनाभावसम्बन्धस्मृतेस्तत्पूर्वकत्वात् तजनकस्यानुमानत्वप्रसङ्ग इति तन्निवृत्तयेऽर्थोपलधिग्रहणं कार्यम् , स्मृतेस्त्वनर्थजन्यत्वम् , अर्थ विनापि भावात् , तथापि लैङ्गिकविपर्ययेऽतिव्याप्तिः, गवयविषाणदर्शनाद्यद्गोप्रतिपत्तिस्तद्गोविषाणसादृश्यज्ञानलक्षणप्रत्यक्षपूर्वकमिति तन्निवृत्तयेऽव्यभिचारिपदमनुवर्तनीयम् , एवमपि संशयज्ञानजनकेऽतिप्रसङ्गः, यतो गोगवयानुयायिलिङ्गदर्शनागौर्गवयो वेति संशय उपजायते तज्जनकं च सदृशलिङ्गज्ञानं प्रत्यक्षं तत्पूर्वकं 5 संशयज्ञानमर्थविषयञ्च तदर्थ व्यवसायपदमप्यनुवर्तनीयम् । तथाप्यविनाभावसम्बन्धस्मरणानन्तरं तथा चायं धूम इति प्रदर्शनज्ञानादग्निरिति वाक्याच नारिकेलद्वीपवासिनो विशिष्ट. देशेऽग्निप्रतिपत्तिरुपजायते, न च तस्यानुमानफलत्वं शाब्दत्वेन व्यवस्थापनात्तन्निवृत्तयेऽव्यपदेश्यपदानुवृत्तिः, तथाप्युपमानेऽतिप्रसङ्गः, गृहीतातिदेशवाक्यस्य पुंसः सादृश्यज्ञानं वाक्यार्थानुस्मरणसहायमव्यपदेश्यादिविशेषणत्रयविशिष्टं संज्ञासंज्ञिसम्बन्धज्ञानं जनयदपि ना 10 नुमानम् , तत्फलस्याव्यपदेश्यत्वञ्च श्रूयमाणवाक्याजनितत्वात् । तस्मात्तत्पूर्वकमित्यत्र विग्रहद्वयमाश्रयणीयं तानि ते च पूर्व यस्य तत् तत्पूर्वकम् , तानि इत्यनेन सर्वप्रमाणपूर्वकत्व. मनुमानस्य लभ्यते । ते इत्यनेन द्वे प्रत्यक्षे ग्राह्ये, तथा च तत्पूर्वकमित्यनेन लिङ्गलिङ्गिसम्बन्धदर्शनं लिङ्गदर्शनञ्च सम्बध्यते, न चोपमानफलमेवम्भूताध्यक्षफलद्वयपूर्वमिति तत्फलाद्भिद्यतेऽनुमानफलम् । द्वितीयपक्षे तत्पूर्वकं त्रिविधमिति क्षणम् , त्रिविधपदा- 15 नुपादाने संस्कारस्मृतिशाब्दविपर्ययसंशयोपमानादिषु अतिप्रसङ्गः । त्रिविधमिति पक्षधर्मान्वयव्यतिरेकलक्षणानि त्रीणि रूपाणि गृह्यन्ते, पूर्ववदिति पक्षसत्त्वस्य शेषवदिति सपक्षसत्त्वस्य सामान्यतो दृष्टमिति विपक्षासत्त्वस्य लाभात् , एतद्रूपलिङ्गालम्बनं यत्तपूर्वकं तदनुमानं नातः संस्कारादौ दोषः । तथापि बाधितसत्प्रतिपक्षेष्वतिव्याप्तिरतश्वशब्देनाबाधितविषयत्वासत्प्रतिपक्षत्वयोर्ग्रहणम् । तत्राप्यन्वयिलिङ्गविवक्षायां सामान्यतो 20 दृष्टस्य व्यतिरेकिविवक्षायां शेषवदित्यस्यानभिसम्बन्धान तदालम्बनयोरसङ्ग्रहः, तथा चान्व. यलिङ्गविवक्षायां विपक्षासत्त्वव्यतिरिक्तचतुर्लक्षणलिङ्गस्य व्यतिरेकिविवक्षायां सपक्षसत्त्व. व्यतिरिक्तचतुर्लक्षणलिङ्गस्यान्वयव्यतिरेकिलिङ्गविवक्षायाञ्च पञ्च लक्षणलिङ्गस्य प्राप्तिरिति । त्रिविधमिति पदमतिप्रसङ्गवारकम पि प्रकारभेदपरतयापि वर्णयन्ति, त एव भेदाः पूर्ववदा. दिशब्देनोक्ताः, यत्र कारणेन कार्यमनुमीयते तत्पूर्ववत् । ननु कारणात् कार्ये साध्ये कार्यस्य धर्मित्वे आश्रयासिद्धिः, तस्यासिद्धत्वात् , सिद्धत्वे वा साधनवैफल्यम्, न च कार्यसत्तायां साध्यायां कारणलक्षणो हेतुर्भावधर्मः सिद्धः, कार्यसत्तासिद्धावेव तद्धमतासिद्धेः, नाप्यभावधर्मोऽसौ, तत्सत्तासाधने तस्य विरुद्धत्वात् । नाप्युभयधर्मः,तत्र तस्य व्यभिचारात् , न ह्युभयधर्मो भावमेव साधयति, किञ्च कारणात् कार्यस्यास्तित्वे साध्ये हेतुय॑धिकरणः
"Aho Shrutgyanam"