________________
२२२ : सम्मतितत्त्वसोपाने
षविंशम् क्षणिकत्वयोस्तादात्म्ये एकनिश्चयेऽपरस्यापि निश्चयः, अन्यथा तत्तादात्म्यायोगात् , अतस्तदनुमानं व्यर्थ मिति वाच्यम् , निश्चयापेक्षो हि गम्यगमकभावः, निश्चयश्चानुभवाविशेषेऽपि सत्त्व एव न क्षणिकत्वे, सदृशापरापरोत्पत्त्यादेओन्तिनिमित्तस्य सद्भावाद्विपर्यये बाधकप्रमाणवृत्त्या सत्त्वक्षणिकत्वयोस्तादात्म्यसिद्धः, बाधकप्रमाणस्य च प्रतिवन्धसिद्धिरध्यक्षत इति नानव5 स्थादिदोषः । न च निर्विकल्पकं व्याप्त्या प्रतिबन्धग्रहणेऽक्षम मिति शङ्कथम् , विकल्पोत्पादनद्वारेण तत्र तस्य सामर्थ्याभ्युपगमात् । अनुमानविषयस्य सामान्यस्याभावो य उक्तस्सोऽपि न युक्तः, अतद्रूपपरावृत्तवस्तुमात्रप्रसाधकत्वादनुमानस्य, यथोक्तस्य च सामान्यस्यायोगव्यच्छेदेन प्रतिनियतदेशादिसम्बन्धितयाऽनुमानेन प्रसाधनात् , अवगततादात्म्यतदुत्पत्तिप्रति
बन्धस्य च लिङ्गस्य साध्यगमकत्वे न कश्चिद्दोष इति नानुमानप्रामाण्यानुपपत्तिरिति न 10 चार्वाकमतं युक्तम् । तत्र हेतुः पक्षधर्मत्वान्वयव्यतिरेकलक्षणकार्यस्वभावानुपलब्धिस्वरूपेण त्रिविधः अतोऽन्ये हेत्वाभासाः, अन्येषां हेत्वभावनिश्चयश्च विरुद्धोपलब्ध्या, हेतुतदाभासयोर्विरोधश्च परस्परपरिहारस्थितिलक्षण एव, हेतुलक्षणप्रतीतिकाल एव तदात्मनियतप्रतिभासज्ञानादेव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परमितरेतररूपाभावनिश्चयात्,
तेन हेत्वाभासत्वं त्रिविधहेतुव्यतिरिक्तेषूपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति कुतः 15 पुनः प्रमाणात्रिसंख्याबाह्यानामर्थानां हेत्वाभासत्वेन व्याप्तिरवगतेति चेदुच्यते, अविनाभाव
नियमात् , लिङ्गतयाऽऽशङ्कयमाने त्रिविधहेतुव्यतिरिक्तेऽर्थे पक्षधर्मतासद्भावेऽप्यविनाभावस्याभावात् , अतो हेत्वाभासत्वेनासिद्धविरुद्धानकान्तिकसामान्यधर्मेण ब्याप्तम विनाभाववैकल्यं प्रमेयत्वादाववगतमिति हेत्वाभासत्वे साध्ये तत्स्वभावहेतु स्त्रिविधहेतुव्यतिरिक्तत्वा
देव व्यापकानुपलब्धेः तदन्येषामविनाभाववैकल्यं सिद्धम् , अविनाभावस्य तादात्म्यतदुत्प20 तिभ्यां व्याप्तत्वात् , तयोरेव तस्य भावात् , अतदुत्पत्तेरतत्स्वभावस्य च तदनायत्ततया तदव्य
भिचारनियमाभावात् । रसात्समानसमयस्य रूपादेः प्रतिपत्तिरपि स्वकारणाव्यभिचारनिमित्ताविनाभावनिरन्धनेति तत्कारणोत्पत्तिरेवाधिनाभावनिबन्धनमन्यथा तदनायत्तस्य तत्कारणानायत्तस्य वा तेनाविनाभावकल्पनायां सर्वार्थेरविनाभावो भवेदविशेषात् । तदेवं तादात्म्य.
तदुत्पत्त्योरविनाभावव्यापिकयोर्यत्राभावस्तत्राविनाभावाभावाद्वेतुत्वस्याप्यभावः सिद्ध इति । 25 एतेन तत्पूर्वकं त्रिविधमनुमानं पूर्ववत् शेपवत् सामान्यतो दृष्टञ्च' [न्यायद १-१-५] इति
नैयायिकोक्तानुमानलक्षणं प्रतिक्षिप्तम् , अत्र सूत्रे तत्पूर्व कमनुमानमित्येतावदेवानुमानलक्षणमित्येके, तत्पूर्वकं त्रिविधमनुमानमिति चान्ये, सम्पूर्णसूत्रं तथेत्यपरे । आये तत्पदेन प्रत्यक्षपरामर्शः, प्रत्यक्षपूर्वकमनुमानमित्युक्तौ संस्कारेऽतिप्रसङ्गः । अतो ज्ञानग्रहण कार्यम, तत्पूर्वक ज्ञानं यतो भवति तदनुमानमित्युच्यमाने स्मृत्याश्रयेणातिप्रसङ्गः, द्वितीयलिङ्गदर्शनपूर्विकाया
"Aho Shrutgyanam"