________________
सोपानम् ]
अनुमानविचारः । अन्यथा प्रमाणेतरसामान्यस्थिते: परबुद्धिपरिच्छित्तेः स्वर्गापूर्वदेवताप्रतिषेधस्य चाकृतसं. स्काराभिः स्वसंवित्तिभिः कर्तुमशक्तः । प्रमाणस्यागौणत्वं यद्यनुपचरितलक्षणमिष्टं तदानुमानमप्यनुपचरितमेव अस्खलढुद्धिरूपत्वात् । अथानुमानेन धर्मधर्मिसमुदायः साध्यः, तेन च हेतोर्नान्वयः पक्षधर्मता वा सम्भवति, तत्र पक्षधर्मतासिद्धये धर्मिणस्साध्यत्वमन्वयसि. द्धये च धर्मस्योपचरितमित्युपचरितविघयत्वादनुमानमुपचरितमिति चेन्न, यत्र धर्मिणि 5 धूममात्रमग्निमात्रव्याप्तमुपलभ्यते तत्रैवाग्निप्रतिपत्तेर्लोकस्य भावात्कस्याप्यत्रानुपचारात्, घर्मिणि केवलस्य धर्मस्य साधनेऽपि इष्टसमुदायस्य सिद्धेः, न ह्यनुमानविषये साध्यशब्दोपचारेऽनुमानमुपचरितं भवति । न च प्रमाणस्यागौणत्वेनाभ्रान्तत्वादनुमानस्य भ्रान्तत्वादप्रामाण्यं वाच्यम्, भ्रान्तस्यापि तस्य प्रतिबन्धफलादुपजायमानस्य प्रामाण्यसिद्धेः, प्रत्यक्षस्य अर्थस्यासम्भवेऽभाव एवाव्यभिचारित्वलक्षणं प्रामाण्यं तच्च साध्यप्रतिबद्धहेतुप्रभवस्यानु 10 मानस्याप्यस्तीति कथं न प्रमाणम् । अनधिगतार्थपरिच्छित्तिः प्रमाणमित्यपि न युक्तम् , सर्व एव हि प्रवृत्तिकामः प्रेक्षावान् प्रवृत्तिविषयार्थप्रदर्शकं प्रमाणमन्वेषते, प्रवृत्तिविषयश्वार्थक्रियासमर्थोऽर्थः, अर्थस्यानागतं प्रवृत्तिसाध्यमर्थक्रियासामध्ये नाध्यक्षमधिगन्तुं समर्थम् , भाविनि प्रमाणव्यापारासम्भवात् , तस्मात्कथं प्रत्यक्षस्यार्थपरिच्छेदमात्रात् प्रामाण्यं युक्तम् , अतः स्वविषयेऽध्यक्षं तदुत्पत्त्या यत्पूर्व मया प्रबन्धेनार्थक्रियाकारि प्रतिपन्न वस्तु 15 तदेवेदमिति निश्चयं कुर्वत् प्रवर्तकत्वात् प्रमाणम् , अनुमानेऽपि चैतत्समानम् , यतोऽर्थक्रिया. कारित्वेन निश्चितादर्थात् पारम्पर्येणोत्पत्तिरेवाव्यभिचारित्वलक्षणं प्रामाण्यनुमानेऽप्यध्यक्षवत् कथं नाविप्रतिपत्तिविषयः, प्रतिपद्यत एव चान्यनुमानस्य तदुत्पत्त्या बाह्यवहयध्यवसायेन लोकोऽध्यक्षवत् प्रामाण्यम् । अथाध्यक्षमपि प्रमाण नेष्यते तर्हि लोकप्रतीतिबाधा स्यात् , न च नानुमानस्य प्रामाण्यं प्रतिषिध्यते किन्तु लिङ्गस्य च्यादिलक्षणं न केनचित्प्रमाणेन प्रसिद्ध. 20 मित्युच्यते, अनुमानेन तदवगमेऽनवस्थापत्तेरिति वाच्यम् , पक्षधर्मात्तदंशव्याप्तात् प्रमाणतोऽ वगतात् साध्यप्रतिपत्तिर्हि अनुमानम् , पक्षधर्मतानिश्चयश्च क्वचित् प्रत्यक्षात् क्वचिच्चानुमानात्, यत्राप्यनुमानात्तन्निश्चयस्तत्र नानवस्थादिदूषणम् , प्रत्यक्षादेव कचित्तन्निश्चयात् । तदंशव्याप्तिनिश्चयश्च कार्यहेतोः कस्यचित् स्वभाव हेतोश्च विशिष्ट प्रत्यक्षादेव, स्वभावहेतोरप्यनित्यत्वादेरध्यक्षेणैव प्रतिपत्तेस्तन्निबन्धन एव तनिश्चयः, अध्यक्षावगतेऽपि च क्षणिकत्वे तदमवहारप्र- 25 साधनाय प्रवर्त्तमानमनुमानं न वैयर्यमनुभवेत् , शिंशपात्वाद्वृक्षत्वानुमानवत् । न च सत्त्व
१ संक्षिप्ताक्षिप्तचेतोभिः शास्त्रकारैर्धमधर्मिसमुदाय सङ्केतितोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचारेण प्रयुक्तो भवेन्नैतावता शास्त्रे पक्षशब्दात् प्रतिपत्ती धर्मिणो गौणता, अनुमानसमये तु प्राकृतरिव तार्किकैरप्यप्रयुक्तपक्षशन्दैरेव धर्मिणः प्रत्यक्षतः प्रतीयमानत्वे कथं गौणता, यतस्तद्वत्तिहेतोरपि गौणतयाऽनुमानस्य गौणता स्यादिति बोध्यम् ।।
"Aho Shrutgyanam"