________________
. २२०: सम्मतितत्त्वसोपाने
[षशिम् मतेर्वाचकाः पर्यायशब्दा मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इत्येते प्रतिपन्नाः, स्मृतिसंज्ञाचिन्तादीनान्तु कथञ्चिद्गहीतग्राहित्वेऽपि अविसंवादकत्वादनुमानवत् प्रमाणताsभ्युपेया। न चानुमानस्यागृहीतस्वलक्षणाध्यवसायात् प्रामाण्यं न यथोक्तस्मृत्यादेरिति, शब्दानित्यत्वादिषु लिङ्गलिङ्गिधियोरप्रमाणताप्रसङ्गात् , व्याप्तिग्राहकप्रमाणेन साकल्येनान5 धिगतस्वलक्षणाध्यवसायिना सत्त्वानित्यत्वादेहमे तयोः समधिगतस्वलक्षणविषयत्वात् ।
अत्र च यच्छब्दसंयोजनात् प्राक् स्मृत्यादिकमविसंवा दिव्यवहारनिर्वर्तनक्षम प्रवर्तते तन्मतिः, शब्दसंयोजनात् प्रादुर्भूतं तु सर्वं श्रुतमिति विभाग इति दिक् ।।
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसृरिणा सङ्कलितस्य सम्मतितत्वसोपानस्य प्रत्यक्षलक्ष.
णपरीक्षणं नाम पञ्चविंशं सोपानम् ॥
10
अथ अनुमानविचारः।। अत्र चार्वाकाः । विशदं सांव्यवहारिकमध्यक्षं युक्तम् , अनुमानादिकन्तूपचरितविष. 15 यत्वाद्विषयाभावाच न प्रमाणमिति कथं शब्दसंयोजनात् स्मृत्यादिश्रुतमुपपत्तिमन् । तदुक्तं
'प्रमाणस्यागौणत्वादनुमानादर्थनिर्णयो दुर्लभः ' तथा ' अनधिगतार्थपरिच्छित्तिः प्रमाणम्' इति । न चानुमानमर्थपरिच्छित्तिस्वभावम् , तद्विषयाभिमैतस्य सामान्यादेरर्थस्याभावात् , भावेऽपि यदि विशेषस्तद्विषयोऽभ्युपगम्यते तदा तत्र हेतोरनुगमाभावः, अथ सामान्य तद्विषयस्तदा सिद्धसाध्यताप्रसक्तिः, विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यतेति न्यायात् । किश्च व्याप्तिग्रहणे पक्षधर्मतावगमे च सत्यनुमानं प्रवर्त्तते, न च व्याप्तिग्रहणमध्यक्षतः सम्भवति, सस्य सन्निहितमात्रार्थग्राहकत्वेन सकलपदार्थाक्षेपेण व्याप्तिग्रहणेऽसामर्थ्यात् । नाप्यनुमानं तद्रहणक्षमम् , अनवस्थाप्रसङ्गात् , प्रत्यक्षानुमानाभ्यामन्यस्य व्याप्तिग्राहकत्वा. योगात् कुतोऽनुमान प्रमाणमिति । अत्र सौगताः अस्ति प्रत्यक्षातिरिक्तं प्रमाणान्तरम् ,
१ नन्वनुमानेन किं धर्मी साध्यते धर्मो वा समुदायो वा, नाद्यः, धर्मिणः प्रसिद्धत्वेन साधनवैफल्यात्, हेतोरनन्वयाच्च न हि यत्र यत्र धूमस्तत्र तत्र पर्वतनितम्ब इत्यन्वयः सम्भवति, द्वितीये किं सामान्यरूपो विशेषरूपो वा धर्मः साध्यः, तत्र सामान्यरूपे सिद्धसाधनम् , न वा तन्मात्रप्रतिपत्तो किश्चित् फलमुपलभामहे तस्य दाहपाकादायसामर्थात् । सामान्यात् प्रतीताच प्रवर्तमानः प्रमाता कथं नियतदिगभिमुखमेव प्रवर्तत, न हि सामान्य नियतदिकम् , सकलव्यक्तिव्यापित्याभावप्रसक्तः । विशेषोऽपि न साध्यः, तत्साधनस्यानन्वयात्, न हि पर्वतवहिव्यक्तिमहानसादौ दृशान्त वर्तते येन तेन सह धूमस्य व्याप्तिप्रतीतिर्भवेत् ॥
"Aho Shrutgyanam"