________________
सोपानम् ]
प्रत्यक्षलक्षणपरीक्षा ।
: २१९ :
तज्ज्ञानमव्यभिचारि, अताविकधर्माभासित्वाच्च तदेव व्यभिचारीति एकमेव ज्ञानं प्रमाणमप्रमाणञ्च प्रसक्तम्, न च सन्दिग्धाकारप्रतिभासित्वात्सन्देहज्ञानमिति वाच्यम्, परमार्थतः संदिग्धाकारताया अर्थे सद्भावेऽबाधितार्थग्रहणरूपत्वात्संशयज्ञानरूपत्वायोगात् सत्यार्थज्ञानवत् । तस्या अर्थेऽसद्भावे तु तज्ज्ञानमव्यभिचारिपदव्यावर्त्यमेवेति न व्यवसायपदं सार्थकम्, तस्मान्नेदं प्रत्यक्षलक्षणमदुष्टम् । किन्तर्ह्यदुष्टं लक्षणमिति चेदुच्यते, स्वार्थ संवेदनं 5 स्पष्टमध्यक्षं मुख्यगौणतः इति, मुख्यमतीन्द्रियैज्ञानम शेष विशेषालम्बनमध्यक्षम् । गौणन्तु संव्यवहारनिमित्तमसर्व पर्यायद्रव्यविषयमिन्द्रियप्रभवमस्मदाद्यध्यक्षं विशदम् । अस्य च स्वयोग्योऽर्थः स्वार्थः तस्य संवेदनं विशदतया निर्णयस्वरूपम्, तेन संशयविपर्ययाऽनध्यव सायलक्षणस्य ज्ञानस्य संव्यवहारानिमित्तस्य नाध्यक्षताप्रसक्तिः, नाप्यज्ञानरूपस्येन्द्रियादेरविकल्पस्य वा सौगताभिमतस्य प्रत्यक्षता । स्वञ्चार्थश्च स्वार्थौ तयोः संवेदनं स्वार्थ- 10 संवेदनमित्यपि व्युत्पत्त्या अर्थसंवेदनस्यैव जैमिनीय वैशेषिकादिपरिकल्पितस्य परोक्षस्य तदेकार्थसमवेतान्तरज्ञानग्राह्यस्यास्व संविदितस्वभावस्याध्यक्षतान्युदासः, तथा विज्ञानवादिपरिकल्पितस्य स्वरूपमात्रग्राहकस्य । प्रमाणप्रमेयरूपस्य च सकलस्य क्रमाक्रमभाव्यनेकधर्मा क्रान्तस्यैकरूपस्य वस्तुनः सद्भावेऽध्यक्षप्रमाणस्यैकस्य क्रमवर्त्तिपर्यायवशात्तथाव्यपदेशमासादयतश्चातुर्विध्यमवग्रहेहावायधारणरूपतयोपपन्नम् । तत्र विषयविषयिसन्निपातानन्तरमाद्यं 15 ग्रहणमवग्रहः विषयो द्रव्यपर्यायात्मार्थः, तस्य विषयिणश्च द्रव्येन्द्रियस्य निर्वृत्युपकरणस्य लब्ध्युपयोगस्वभावस्य भावेन्द्रियस्य यथाक्रमं सन्निपातो योग्यदेशावस्थानं तदनन्तरोद्भूतं सत्तामात्रदर्शनस्वभावं दर्शनं स्वविषयव्यवस्थापनविकल्परूपमुत्तरपरिणामं प्रतिपद्यमानमवग्रहः, अवगृहीतविषयाकांक्षणमीहा, तदी हित विशेष निर्णयोऽवायः, अवेतविषयस्मृतिहेतुर्धारणेति । अत्र पूर्वपूर्वस्य प्रमाणता, उत्तरोत्तरस्य च फलतेत्येकस्यापि मतिज्ञानस्य 20 चातुर्विध्यं कथञ्चित्प्रमाणफलभेदश्चोपपन्नः, ग्राह्यग्राहकसंविदां प्रतिभासभेदेऽपि युगपदेकत्वमिव क्रमभाविनामवग्रहादीनां हेतुफलतया व्यवस्थितस्वरूपाणामपि कथञ्चिदेकत्वमविरुद्धम् । धारणास्वरूपा च मतिर विसंवादस्वरूपस्मृतिफलस्य हेतुत्वात् प्रमाणं स्मृतिरपि तथाभूतप्रत्यवमर्शस्वभावसंज्ञाफलजनकत्वात् संज्ञापि तथाभूततर्कस्वभावचिन्ता फलजनकत्वात्, चिन्ताऽप्यनुमानलक्षणाभिनिबोधफलजनकत्वात्, सोऽपि हानादिबुद्धिजनकत्वात्, तदुक्तम् 25 ' मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोध इत्यनर्थान्तरम्' [ तस्वार्थ १-१३ ] अनर्थान्तरमिति कथञ्चिदेकविषयम् । प्राक् शब्दयोजनान्मतिज्ञानमेतत् शेषमनेकप्रभेदं शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतमिति केचित् । सैद्धान्तिकास्तु अवग्रहेहावायधारणाप्रभेदरूपाया
१ अत्रतीन्द्रिय ज्ञानपदेनाशेषविशेषालम्बनभिन्न गोरवधिमनःपर्यायज्ञानयोरपि ग्रहणं काय्र्यम् ॥
"
"Aho Shrutgyanam"