________________
: २३८: सम्मतितत्त्वसोपाने
[ अष्टविंशम् सितत्वम् , द्रव्यविषयप्रश्नोत्तराश्रुतेः । अथ भवतोऽपि कथं तयोरपर्यवसानता, पर्यायाणामुत्पादविगमात्मकत्वात् । न च द्रव्यापेक्षयेति वाच्यम् , अस्मत्पक्षेऽप्यस्य समानत्वात् । तद्विषयप्रश्नप्रतिवचनाभावान्नेति चेत्तर्हि भवतोऽपि द्रव्यापेक्षयाऽपर्यवसानकथनमयुक्तम् , न, तयोर्युगपद्रूपरसयोरिवोत्पादाभ्युपगमान्न ऋजुत्ववक्रेतावत् । एवमपि सपर्यवसानतेति चेन्न 5 कथश्चित्केवलिद्रव्यादव्यतिरेकतस्तयोरपर्यवसितत्वात् । न च क्रमैकान्तेऽप्येवं भविष्यति,
अनेकान्तविरोधात् । न चात्रापि तथाभावः, तथाभूतात्मकैककेवलिद्रव्याभ्युपगमात्, रूपरसात्मकैकद्रव्यवत् , अक्रमरूपत्वे च द्रव्यस्य तदात्मकत्वेन तयोरप्यक्रम एव न च तयोस्तद्रूपतया तथाभावो न स्वरूपत इति वाच्यम् , तथात्वेऽनेकान्तरूपताविरोधान्निरावरणस्या
क्रमस्य क्रमरूपत्वविरोधाच्च तस्यावरणकृतत्वात् । किश्च यदि सर्वथा क्रमेणैव तयोरुत्पत्तिः 10 तीनेकान्तविरोधः, अथ कथञ्चित्तदा युगपदुत्पत्तिपक्षोऽप्यभ्युपगतः । न च द्वितीये क्षणे
तयोरभावेऽपर्यवसितता छानस्थिकज्ञानस्येव युक्ता, पुनरुत्पादादपर्यवसितत्वे पर्यायस्याप्य. पर्यवसितताप्रसक्तिः, द्रव्यार्थतया तत्त्वे द्वितीयक्षणेऽपि तयोः तद्भावोऽन्यथा द्रव्यार्थत्वा. योगात् ।। ६१ ॥ तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरति--
संतम्मि केवले दसणम्मि णाणस्स संभवो णस्थि । केवलणाणम्मि य दंसणस्स तम्हा सणिहणाइं ॥ ६२ ॥ सति केवले दर्शने ज्ञानस्य संभवो नास्ति ।
केवलज्ञाने च दर्शनस्य तस्मात् सनिधनं ॥ छाया ॥ सतीति, स्पष्टम् , तस्मात्केवलज्ञानदर्शने सनिधने नाशसहिते प्रसक्ते ।। ६२ ॥
अत्र प्रकरणकारः क्रमोपयोगवादिनं तदुभयप्रधानाक्रमोपयोगवादिनश्च पर्यनुयुज्य स्वपक्षं दर्शयति--
दंसणणाणावरणक्खए समाणम्मि कस्स पुब्वअरं । होज समं उप्पाओ हंदि दुए णत्थि उवओगा ॥ ६३ ।
दर्शनज्ञानावरणक्षये समाने कस्य पूर्वतरम् । भवेत्सममुत्पादो हंदि द्वौ न स्त उपयोगी ॥ छाया ॥
25
१ यद्धविच्छिन्ने कमिकत्वप्रसिद्धिः तद्धर्मावच्छिन्नेऽपर्यवसितस्यान्वयो निराकांक्षः, अन्यथा ऋजुत्ववक्रत्वे अपर्यवसिते इति प्रयोगस्यापि प्रसङ्गः, मम तु रूपरसात्मकैकद्रव्यवदकममाविभिन्नोपाधिकोत्पादविगमात्मकस्वेऽपि केवलिद्रव्यादव्यतिरेकतः तयोरपर्यवसितलं नानुपपन्नमिति भावः ।।
"Aho Shrutgyanam"