SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सर्वोपयोगविचारः । दर्शनेति । सामान्यविशेषपरिच्छेदकावरणापगमे समाने सति कस्य प्रथमतरमुत्पादो भवेत् , अन्यतरोत्पादे तदितरस्याप्युत्पादः स्यात् , न चेदन्यतरस्याप्युत्पादो न स्यात् , अवि. शेषादित्युभयोरप्यभावप्रसक्तिः, अक्रमोपयोगवादिनच तयोरेककालमुत्पादो भवेत् , सत्यक्रमकारणे कार्यस्याप्यक्रमस्य भावात् इत्यक्रमो द्वावुपयोगौ । एकोपयोगवाद्याह हंदि द्वावुपयोगौ नैकदेति ज्ञायताम् , सामान्यविशेषपरिच्छेदात्मकत्वात् केवलस्येति ।। ६३ ।। 5 यदेव ज्ञानं तदेव दर्शनमित्येतस्मिन्नेव वादे सर्वज्ञतासंभव इत्याह जह सव्वं सायारं जाणइ एकसमएण सव्वण्णू । जुजइ सयावि एवं अहवा सव्वं ण याणाइ ॥ ६४॥ यदि सर्व साकार जानाति एकसमयेन सर्वज्ञः । युज्यते सदाप्येवं अथवा सर्वं न जानाति ॥ छाया । 10 यदीति । यदि सर्व साकारं जानस्तदात्मकं सामान्थं तदैव पश्यति, तत् पश्यन् वा तदव्यतिरिक्तं विशेषं तदैव जानाति, उभयात्मकवस्त्ववयोधैकरूपत्वात् सर्वज्ञोपयोगस्य तदा सर्वज्ञत्वं सर्वदर्शित्वञ्च तस्य सर्वकालं युज्यते, प्रतिक्षणमुभयात्म कैकरूपत्वात्तस्य । अथवा सर्व सामान्य साकारं वा वस्तु न पश्यति न जानाति च, तथाभूतयोः तयोरसत्त्वात् , जात्यन्धवत् आकाशवद्वा । अथवा सर्वं न जानात्येकदेशोपयोगवृत्तित्वात् , मतिज्ञानिवत् 1 युगपत् 15 क्रमेण चैकान्तभिन्नोपयोगद्वयवादिमते न सर्वज्ञता सर्वदर्शिता चेत्याशय आचार्यस्य । तत्र जिनभद्रगणिक्षमाश्रमणपूज्यानामयुगपद्भाव्युपयोगद्वयमभिमतम् , मल्लवादिनस्तु युगपद्धवि तव्यमिति, प्रकरणकारस्य तयोरुपयोगयोरभेद इति मतम् ।। ६४ ॥ साकारानाकारोपयोगयो कान्ततो भेद इति दर्शयितुमाह परिसुद्धं सायारं अवियत्तं दसणं अणायारं । ण य वीणावरणिजे जुन्नइ सुवियत्तमवियत्तं ॥ ६५ ॥ परिशुद्धं साकारमध्यक्तं दर्शनमनाकारम् ।। न च क्षीणावरणीये युज्यते सुव्यक्तमव्यक्तम् ॥ छाया ॥ परिशुद्धमिति | ज्ञानस्य रूपं व्यक्तता दर्शनस्य चाव्यक्तता। क्षीणावरणे चाईति व्यक्तताव्यक्तते न युज्येते तस्मात् सामान्य विशेषज्ञेयस्पर्शी उभयै कस्वभाव एवायं केवलि- 25 १ यदेव ज्ञानं तदेव दर्शनम् , उभयहेतुसमाने समूहालम्बनोत्पादस्यैवान्यत्र दृष्टत्वात् नात्रापरिदृष्टकल्पनाग्नेश इति भावः ॥ 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy