________________
सम्मतितत्त्वसोपाने
[ पशिम् प्रत्ययः, न च ग्राह्यद्वित्वाद्वाहकद्वित्वमिति तत्र सम्भावना युक्ता, केवलज्ञानस्य ग्राह्यानन्त्ये. नानन्ततापत्तेः, अन्योऽन्यानुविद्धग्राह्यांशद्वयमभेदाद्राहकस्य तथा त्वकल्पने एकत्वानतिक्रमान्न दोष इति । अत्रायमभिप्रायः न चैकस्वभावस्य प्रत्ययस्य शीतोष्णस्पर्शवत् परस्पर
विभिन्नस्वभावद्वयविरोधो दर्शनस्पर्शनशक्तिव्यात्मकैकदेवदत्तवत् , स्वभावव्यात्मकैकप्रत्ययस्य 5 केवलिन्यविरोधात्, अनेकान्तवादस्य प्रमाणोपपन्नत्वादिति ।। ६५ ॥ क्रमाक्रमोपयोगद्वयाभ्युपगमे तु भगवत इदमापन्नमिति दर्शयति--
अघिट्ट अण्णायं च केवली एव भासइ सया वि । एगसमयम्मि हंदी वयणवियप्पो न संभवइ ।। ६६ ॥
अदृष्टमशातञ्च केवली एव भाषते सदापि ।
एकसमये हंदी वचनविकल्पो न सम्भवति ॥ छाया ॥ अदृष्टमिति । केवली जात्यन्धहस्तिपरिज्ञानवददृष्टमेव ज्ञातं तथाऽलातचक्रदर्शनवद. ज्ञातमेव च दृष्टं सर्वदा भाषत इत्यक्रमोपयोगपक्षे प्रसक्तम , क्रमवयुपयोगपक्षे तु यदेकस्मिन् समये जानाति तदेव भाषते ज्ञातं न तु दृष्टम् , समयान्तरे तु यदा पश्यति तदापि दृष्टं
भाषते न तु ज्ञातम् , बोधानुरूपेण वाचः प्रवर्त्तनात् , बोधस्य चाक्रमोपयोगपक्षे एकांशाव. 15 लम्बित्वात् , क्रमोपयोगे तु तत्त्वाद्भिन्नसमयत्वाञ्च एकस्मिन् समये दृष्टं ज्ञातश्च भाषत इत्येष वचनविशेषो भवदर्शने न सम्भवतीति ग्राह्यताम् ॥ ६६ ॥ तथा च सर्वज्ञत्वं न सम्भवतीत्याह
अण्णायं पासंतो अद्दिटुं च अरहा वियाणतो । किं जाणइ किं पासइ कह सवण्णु त्ति वा होइ ॥ ६७ ॥
अज्ञातं पश्यन्नदृष्टश्चाहर्न विजानानः ।
किं जानाति किं पश्यति कथं सर्वज्ञ इति वा भवति ॥ छाया ॥ अज्ञातमिति । अज्ञातं पश्यन्न दृष्टश्च जानानः किं जानाति किं पश्यति न किश्चिदपीति भावः । कथं वा तस्य सर्वज्ञता भवेत् ॥ ६७ ।। ज्ञानदर्शनयोरेकसंख्यत्वादप्येकत्व मित्याह
केवलणाणमणंतं जहे व तह दसणं पि पण्णत्तं । सागारग्गहणाहि य णियमपरित्तं अणागारं ॥ ६८ ॥
25
"Aho Shrutgyanam"