SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सोपानम् सर्वोपयोगविचारः । केवलझानमनन्तं यथैव तथा दर्शनमपि प्रज्ञप्तम् । साकारग्रहणाञ्च नियमपरीतमनाकारम् ॥ छाया ।। केवलेति, यद्येकत्वं ज्ञानदर्शनयोर्न स्यात्ततोऽल्पविषयत्वादर्शनमनन्तं न स्यादिति " अणते केवलणाणे अगते केवलदसणे " इत्यागमविरोधः प्रसज्येत, दर्शनस्य ज्ञाना दे हि साकारग्रहणादनन्तविशेषवर्तिज्ञानादनाकारं सामान्यमात्रालम्बिकेवलदर्शनं यतो नियमे 5 नैकान्तेनैव परीतमल्पं भवतीति कुतो विषयभेदादनन्तता ॥ ६८ ॥ क्रमवादिदर्शने ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यत् प्रेरितमेकत्ववादिना तत्परिहारार्थमाह भण्णइ जइ चउणाणी जुजइ णियमा तहेव एयं पि । भण्णइ ण पंचणाणी जहेव अरहा तहेयंपि ॥ १९ ॥ 10 भण्यते यथा चतुर्शानी युज्यते नियमात्तथैवैतदपि । भण्यते न पञ्चज्ञानी यथैवाहस्तथैतदपि ॥ छाया ॥ भण्यत इति, भण्यते आक्षिप्यते यथा क्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्ज्ञानी अपर्यवसितचतुर्ज्ञान उत्पद्यमानतज्ज्ञानसर्वदोपलब्धिको व्यक्तबोधो ज्ञातदृष्टभाषी ज्ञाता द्रष्टा चावश्यमेव युज्यते तच्छक्तिसमन्वयात् , तथैतदपि एकत्यवादिना यदपर्यवसितत्वादि केवलिनि 15 कथमिति यत् प्रेर्यते तद्युज्यत एव, सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वयात् । अत्रैकत्ववादिना प्रति समाधान भण्यते यथैवाहन्न पञ्चज्ञानी भवति तथैतदपि क्रमवादिना यदुच्यते भेदतो ज्ञानवान् दर्शनवानिति च तदपि न भवतीति सूत्रकृतोऽभिप्रायः । अत्र च छद्मस्थे किल उपयोगक्रमस्य दृष्टत्वात् केवलिनि च छद्माभावान्न क्रमवान ज्ञानदर्शनोपयोग इत्ययमत्रार्थो विवक्षित इति केचित् प्रतिपन्नाः, न हि यो यज्जातीये दृष्टः सोऽतज्जातीयेऽपि भवत्य- 20 तिप्रसङ्गात् , अन्यथा छद्मस्था अपि केवलिवत् क्रमोपयोगित्वात् सर्वज्ञाः स्युः, सोऽपि वा न भवेत् , तत एव सर्वज्ञवन्निरावरणास्ते, सोऽपि वा सावरणः, तत एव एकज्ञानिनो वा ते, सोऽपि चतुर्सानी वा स्यात् । अत एव छद्मस्थे भुजिक्रियादर्शनात् केवलिनि तद्विजातीये भुजि क्रियाकल्पना न युक्ता, अन्यथा चतु नित्वाकेवलित्वसंसारित्वादयोऽपि तत्र स्युः, न च देहित्वं तद्भुक्तिकारणम् , तथाभूतशक्त्यायुष्कर्मणोस्तद्धेतुत्वादेकवैकल्ये तदभावात् , औदा- 25 १ तथा प्रयोगो विवादास्पदः केवली न कवलाहारवान् भवति, छद्मस्थाद्विजातीयत्वात् , यन्नैवं तन्नैवं यथास्मदादिः । न च देहित्वाकवलाहारवानित्यनुमानेन बाधितः पक्ष इति वाच्यम्, दहिनामपि त्रिदशादीनां कवलाहाराभावेन देहित्वस्य व्यभिचारादिति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy