SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ अडार्विशम् रिकव्यपदेशोऽप्युदारत्वात , न तु भुक्तेः । यदपि एकेन्द्रियादीनामयोगिपर्यन्तानामाहारित्वस्य सूत्रोपदेशात् केवलिनः कवलाहारित्वं केचित् प्रतिपन्नाः, तदपि सूत्रार्थापरिज्ञानात् , तत्र ह्ये केन्द्रियादिभिः सह भगवतो निर्देशानिरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुगलग्रहणमाहारत्वेन विवक्षितमन्यथा क्षणत्रयमात्रमपहाय समुद्धातावस्थायां निरन्तराहारो भगवां5 स्तेनाहारेण भवेत् । यदपि यथासम्भवमाहारव्यवस्थितेः सहनिर्देशेऽपि कवलाहार एवं केवलिनो युक्त्या व्यवस्थाप्यते, अन्यथा तच्छरीरस्थितेरभावादिति, तदपि न युक्तिक्षमम् , अस्मदादेर्हि प्रकृताहारमन्तरेण औदारिकशरीरस्थितेः प्रभूतकालमभावात् केवलिनोऽपि यदि तथाऽनुमीयते तर्हि तस्य सर्वज्ञता नावसातुं शक्या, दृष्टव्यतिक्रमप्रकल्पनाऽयोगात् , श्रूयते च प्रकृताहारमन्तरेणापि चिरतरकाला औदारिकशरीरस्थितिः प्रथमतीर्थकृत्प्रभृती. 10 नामिति, अत्रोच्यते, उपयोगक्रमे न छद्म कारणम् , किन्तु क्षयोपशमकार्य क्रमोपयोगः केव लिनि च तद्भावात्तत्कार्यस्य क्रमोपयोगस्याप्यभावः, यद्यत्कारणकं तत्तदभावे न भवति, यथा चक्षुरभावे चक्षुर्ज्ञानम् , क्षयोपशमकारणश्च क्रमोपयोग इति क्षायिकोपयोगवति केव. लिनि क्रमोपयोगाभावः । न च भवतु मत्यादिक्रमधदुपयोगाभावः क्षयोपशमाभावात् , केवलज्ञानदर्शनयोस्तु क्षायिकत्वात् कथं क्षयोपशमाभावे क्रमाभाव इति वाच्यम् , अविक15 लकारणतयाऽवश्यं प्रादुर्भावात , यद्धि यदाऽविकलकारणम् तत्तदाऽवश्यन्तया प्रादुर्भवति, यथाऽन्त्यसामग्रीकालेऽङ्करः, अविकलकारणञ्च केवलज्ञानोपयोगकाले केवलदर्शनम् , स्वा. वरणक्षयलक्षणाविकलकारणसद्भावेऽपि तदा तस्यानुत्पत्तावत तुकताप्रसक्तेर्देशकालाकारनि. यमो न भवेत् , अनायत्तस्य तदसम्भवात् । क्रमोत्पत्तिस्वभावप्रकल्पनायां क्षायिकत्वं तस्य परित्यक्तं स्यात , अध्यक्षसिद्धे च क्रमे तत्स्वभावप्रकल्पना युक्तिसङ्गता, अन्यथाऽतिप्रसङ्गः, 20 सर्वभावव्यवस्थाविलोपप्रसक्तेः । न वा यो यज्जातीये दृष्टः सोऽन्यत्रातजातीये न भवती त्येतदत्र विवक्षितम् , किन्तु कारणाभावे कार्य न भवति, अविकलकारणञ्चाविलम्बितोत्प. त्तिकमित्येतदत्र प्रतिपादयितुमभिप्रेतमाचार्यस्य । एवं केवलिनो भुक्त्यभावनिश्चयस्तदा स्याद्यदि भुक्तिकारणाभावः सिद्धो भवेत् , स्वकार्यकरणे कारणस्य प्रतिबद्धत्वं वा सिद्धं भवेत, न चैतदुभयमपि भवस्थकेवलिनि सिद्धम् , अप्रतिबद्धसामर्यस्य क्षुद्वेदनीयकर्मोदयस्य 95 तत्र सद्भावात् अत एव न चतुझनित्वाकेवलित्वादिप्रसङ्गः, तत्कारणस्य तत्राभावा निनिमित्तस्य च कार्यस्यासम्भवात् । किश्च केवलिनः किमतज्जातीयत्वमस्मदाद्यपेक्षया किं वाऽऽत्मीयछद्मस्थावस्थापेक्षयाऽभिप्रेतम् , आये सिद्धसाध्यता । द्वितीयेऽपि किं घातिकर्मापेक्षया तत्तस्याभ्युपगम्यते किं वा भुक्तिनिमित्तकर्मक्षयापेक्षया, प्रथमे सिद्धं विजाती. यत्वं न तु तावता तस्य भुक्तिप्रतिषेधः, अप्रतिबद्ध सामर्थ्यस्य भुक्तिकारणस्य तथाविजाती. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy