SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सर्वज्ञोपयोगविचारः । : २४३ : यत्वेऽपि स्वकार्यनिर्वर्त्तकत्वात् । न द्वितीयोऽतज्जातीयत्वस्यैवासिद्धत्वात् तन्निमित्तस्य कर्मणो भवस्थकेवलिनि पर्यन्तसमयं यावदनुवृत्तेः । यदपि न देहित्वं भुक्तिकारणमित्याद्युक्तं तदपि नोचितम्, विशिष्टकर्मोदयसामग्र्या भुक्तिकारणभूतायास्ततोऽद्याप्यव्यावृत्तेः तथाभूतशक्त्यायुष्ककर्मणोश्चैकस्यापि वैकल्यासिद्धेरेकवैकल्ये तदभावादित्यसिद्धम् । यच्चौदारिकव्यपदेशो ऽप्युदारत्वान्न भुक्तेरिति तदपि न युक्तम्, औदारिकशरीरित्वे स्वकारणाधीनाया मुक्तेरप्रतिषे- 5 धात, व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतमुक्तिसिद्धेः । यदपि एकेन्द्रि यादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेश इत्याद्युक्तं तद्व्यसाम्प्रतम्, एकेन्द्रियादिसहचरितत्व निरन्तराहारोपदेशत्वाद्यन्तरेणापि ' विग्गहगइमावण्णा केवलिणो समुहया अयोगी या | सिद्धा य अणाहारा सेसा आहारगा जीवा ||' इत्यादिसूत्रसन्दर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम्, सर्वज्ञप्रणीतत्वेनाभ्युपगतसूत्रस्येव प्रामा- 10 श्योपपत्तेः । न च तत्प्रणीतागमैकवाक्यतया प्रतीयमानस्याप्यतत्प्रणीतत्वम्, अन्यत्रापि तत्प्रसक्तेः । यदुक्तं निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमाहारत्वेन विवक्षितमन्यथा क्षणत्रयमात्रमपहाय समुद्वातावस्थायां निरन्तराहारो भगवांस्तेनाहारेण भवेदिति तदपि न, यतो विग्रहगत्यापन्नसमवहत केवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणस्य शरीरप्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमिति कोऽन्यः सामयिकशब्दार्थविदो भवतोऽभिधातु 15 समर्थः । विशिष्टाहारस्य च विशिष्टकारणप्रभवत्वात् तस्य प्रतिक्षणं कथं सम्भवः, यस्तुपुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणं सद्भावेऽप्यदोष एव । यथासम्भवमाहारव्यवस्थोक्तिस्तु युक्तैव, न हि देशोनपूर्वकोटिं यावत् अन्तरेण विशिष्टाहारं विशिष्टौदारिकशरीरस्थितिः सम्भविनी । न च तच्छास्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम्, येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेर विरोधो भवेत्, ज्ञानाद्यति- 20 शयेऽपि प्राक्तन संहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीर विशिष्टस्थितेर्विशिष्टाहार निमित्तत्वं प्रत्यक्षानुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतमिति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भावे सकृदपि तत्स्थितिस्तन्निमित्ता न भवेत्, अहेतोः सकृदपि सद्भावाभावात् । यदि तु विशिष्टाहारनिमित्ताप्यस्मदादिषु विशिष्टशरीरस्थितिः पुरुषान्तरे तद्व्यतिरेकेणापि भवेत् तर्हि महानसादौ धूमध्वजप्रभवोऽपि धूमः पर्वतादौ तमन्तरेणापि 25 भवेदिति धूमादेरग्न्याद्यनुमानमसङ्गतं भवेत्, व्यभिचारात् । अथैतज्जातीयो धूमः एतजातीयामिप्रभवः सर्वत्र सकृत् प्रवृत्तेनैव प्रमाणेन व्यवस्थाप्यते, तत्कार्यताप्रतिपत्तिबलादग्निस्वभावादन्यत्र तस्य भावे सकृदध्यग्नेर्न भावः स्यात्, अग्निस्वभावादजन्यत्वात्तस्य भवति चाग्निस्वभावान्महानसादौ धूम इति सर्वत्र सर्वदा तत्स्वभावादेव तस्योत्पादे ऽतदु "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy