SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्व सोपाने [ अष्टाविंशम् । स्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरग्न्याद्यनुमाने व्यभिचारस्तर्हि प्रकृतेऽप्ययं प्रकारः समानः, विशिष्टौदारिकशरीरस्थितेर्विशिष्टाहारमन्तरेणापि भावे तच्छरीरस्थितिरेवासौ न भवेत्, न चात्यन्त विजातीयत्वं तस्या इत्युक्तमेव । सर्वथा समानजातीयत्वन्तु महानसपर्वतोपलब्धधूमयोरप्य सम्भवि । ततोऽस्मदादेवि केवलिनोऽपि प्रकृताहारमन्तरेणौदारि5 कशरीरस्थितिर्न चिरकाला संभवतीत्यनुमानं प्रवर्तत एव, अन्यथा धूमादेरग्न्याद्यनुमानमपि न स्यात् । यदपि कुतस्तस्यैवं सर्वज्ञतासिद्धिरित्यभिधानं तदप्यसङ्गतम्, घातिकर्मन्यप्रभवसर्वज्ञतादेः प्रकृताहारेण तत्कार्येण वा चिरकालभाव्यौदारिकशरीरस्थित्यादिना विरोधासम्भवात्, सर्वज्ञतासिद्धिनिबन्धनस्य प्रमाणस्य च पूर्वमेव प्रतिपादितत्वात् । यदपि निराहारौदारिकशरीरस्थितेः प्रथमतीर्थकरप्रभृतीनामतिशयश्रवणात्तदियत्ता नियमप्रतिपादक प्रमाणा10 भावाचेति तदप्यसाम्प्रतम्, तस्य प्रामाण्ये तदियत्तानियमस्यापि तत एव सिद्धेः, तदधिकनिराहारतच्छरीरस्थिते: सूत्रे निषेधान्निरशनकालस्य तावदेवोत्कृष्टताप्रतिपादनाच | भूयांसि प्रकृताहारप्रतिपादकानि केवलिनः सूत्राण्यागम उपलभ्यन्ते, प्रतिनियत काल प्रकृताहारनिषेधकानि च यथा च प्रथमतीर्थकृत एव चतुर्दशभक्त निषेधेनाष्टापदनगे दशसहस्रके व लिमहितस्य निर्वाणगतिप्रतिपादकानि सूत्राणि । तदेवं बाधकप्रमाणाभावात् साधकस्य च 15 सद्भावात् केवलिभुक्तिः सिद्धा ॥ ६९ ॥ : २४४ : 20 क्रमेण युगपद्वा परस्पर निरपेक्ष स्व विषय पर्यवसितज्ञानदर्शनोपयोगौ केवलिन्य सर्वार्थत्वान्मत्यादिज्ञानचतुष्टयवन्त्र स्त इति दृष्टान्तभावनयाह पण्णवणिजा भावा समत्तसुयणाणदंसणा विसओ । ओहिमणपज्जवाण उ अण्णोष्णविलक्खणा विमओ ॥ ७० ॥ प्रज्ञापनीया भावाः समस्तश्रुतज्ञानदर्शना विषयः । अवधिमनः पर्यवयोस्तु अन्योन्यविलक्षणा विषयः ॥ छाया || प्रज्ञेति, द्वादशाङ्गवाक्यात्मकस्य समस्त श्रुतज्ञानस्य दर्शनप्रयोजिकायास्तद्वाक्योपजाताया बुद्धेः शब्दाभिलप्या द्रव्यादयो भावा विषय: आलम्बनम्, मतेरपि त एव शब्दानभिधेया विषयः, मतिश्रुतयोः असर्व पर्याय सर्वद्रव्यविषयत्वेनाभिन्नार्थत्वात् मूले श्रुतस्य भावनया 25 सापि भाविता | अवधिमन: पर्याययोस्तु अन्योन्यविलक्षणा भावा विषयः, अवधेः पुद्गलाः, मनःपर्यवज्ञानस्य मन्यमानानि द्रव्यमनांसि विषय इति, असर्वार्थान्येतानि मत्यादिज्ञानानि परस्पर विलक्षणविषयाणि च, अत एव भिन्नोपयोगरूपाणि ॥ ७० ॥ एवमसकलार्थत्वं भिन्नोपयोगपक्षे दृष्टान्तसमर्थनद्वारेण प्रदर्श्य उपसंहारद्वारेण अक्रमोपयोगद्वयात्मकमेकं केवलमन्यथा सकलार्थता तस्यानुपपन्नेति दर्शयति-— "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy