________________
सोपानम् ]
सर्वशोपयोगविचारः ।
तम्हा चउविभागो जुज्जइ ण उ णाणदंसणजिणाणं । सयलमणावरणमणतमक्स्वयं केवलं जम्हा ॥ ७१ ॥
तस्माच्चतुर्विभागो युज्यते न तु ज्ञानदर्शन जिनानाम् | सकलमनावरणमनस्तमक्षयं केवलं यस्मात् ॥ छाया ||
तस्मादिति, यस्मात् केवलं सकलं सकलविषयं न तु ज्ञानदर्शनप्रधानानां निर्मूलिता- 5 शेषघातिकर्मणां जिनानां छद्मस्थावस्थोपलब्धतत्तदावरणक्षयोपशमकारण भेदप्रभवमत्यादिचतुझनेव ज्ञानदर्शनयोः पृथक् क्रमाक्रमविभागो युज्यते । कुतः पुनः सकलविषयत्वं भगवति केवलस्य, अनावरणत्वात् न ह्यनावृतं असकलविषयं भवति, न च प्रदीपादिना व्यभिचारोऽनन्तत्वात्, अनन्तत्वञ्च द्रव्यपर्यायात्मकानन्तार्थग्रहणप्रवृत्तोत्पादव्ययत्रौव्यात्मकोपयोगवृत्तत्वेनाक्षयत्वात्, ततोऽक्रमोपयोगद्वयात्मकमेकमिति स्थितम्, न चाक्रमोपयोगद्वया- 10 त्मकत्वे कथं तस्य केवलव्यपदेश इति क्रमाक्रमभिन्नोपयोगवादिना प्रेर्यम्, इन्द्रियालोकमनोव्यापार निरपेक्ष निरावरणात्मसत्तामात्र निबन्धनतथा विधार्थं विषयप्रतिभासस्य तथाविधव्यपदेशविषयत्वात् । अद्वैतैकान्तात्मकत्वन्तु तन्न भवति सामान्यविशेषोभयानुभयविकल्पचतुष्टयेऽपि दोषानतिक्रमात् । तथाहि न तावत् सामान्यरूपतया तदद्वयं सामान्यस्य विशेषनिबन्धनत्वात्तदभावे तस्याप्यभावात् । नापि विशेषमात्रत्वात्तद्वयम् अवयवावयविविक- 15 पद्वयानतिक्रमात् न तावदवयवरूपम्, अवयव्यभावे तदपेक्षावयवरूपत्वासम्भवात्, न वा वयविरूपम्, अवयवाभावे तद्रूपस्यासम्भवात् न च तद्रूपातिरिक्तविशेषरूपम्, असदविशेषप्रसङ्गात् न चैकान्तव्यावृत्तोभयरूपम् उभयदोषानतिक्रमात् । न चानुभयस्वभावम्, असस्वप्रसक्तेः । न च ग्राह्यग्राहक विनिर्मुक्ताद्वयस्वरूपम्, तथाभूतस्यात्मनः कदाचिदप्यननुभवात्, सुषुप्तावस्थायामपि न ग्राह्यग्राहकस्वरूप विकलमद्वयं ज्ञानमनुभूयत इति ॥ ७१ ॥
ज्ञानदर्शनोपयोगात्मकै क केवलोपयोगवादी स्वपक्षे आगमविरोधं परिहरन्नाह —
परवत्तब्वयपक्वाअविसिट्टा तेसु तेसु सुत्तेसु ।
अत्थगईअ उ तेसिं विगंजणं जाणओ कुणइ ॥ ७२ ॥
परवक्तव्यपक्षाविशिष्टाः तेषु तेषु सूत्रेषु |
अर्थगत्या तु तेषां व्यञ्जनं ज्ञायकः करोति ॥ छाया ||
: २४५ :
परेति, युगपज्ज्ञानानुत्पत्तिः, नागृहीतविशेषणा विशेष्ये बुद्धिरित्यादिरूपा ये वैशेषिकादिप्रतिपाद्याभ्युपगमास्तैरविशिष्टा भगवन्मुखांभोज निर्गतेषु तेषु तेषु सूत्रेषु ' जं समयं पासइ णो तं समयं जाणइ ' इत्यादिषु प्रतिभासन्ते, न च ते तथैव व्याख्येयाः प्रमाणबाधनात
"Aho Shrutgyanam"
20
25