________________
: २४६ :
सम्मतितत्वसोपाने
[ अष्टाविंशम्
तस्मादर्थगत्यैव सामर्थ्येनैव तेषां व्यक्ति-सकलव स्तुव्याप्यनेकान्तात्मकै ककेब लावबोधप्रभवद्वादशाङ्गैकश्रुत्तस्कन्धाविरोधेन व्याख्यां ज्ञायकः ज्ञाता करोति । श्रुतावधिमन: पर्यायकेवली त्रिविधो 'जं समयं पासइ नो तं समयं जाणइ ' नत्वेवं केवलकेवली, तस्यासर्वज्ञताप्राप्तेरिति सूरेरभिप्रायः ॥ ७२ ॥
5 resoluयोगद्वयात्मकमेकं केवलं किमिति मनःपर्यायज्ञानवत् तज्ज्ञानत्वेनैव न निर्दिष्टम्, तस्मात् ' केवलनाणे केवलदंसणे ' इति भेदेन सूत्रनिर्देशात् क्रमेण युगपद्वा भिन्नमुपयोगद्वयं केवलावबोधरूपमित्याशङ्कयाह -
10
20
जेण मणोविसयगयाण दंसणं णत्थि दव्वजायाण । तो मणपजवणाणं णियमा णाणं तु णिहिं ॥ ७३ ॥
येन मनोविषयगतानां दर्शनं नास्ति द्रव्यजातानाम् । ततो मनःपर्यवज्ञानं नियमाज्ज्ञानं तु निर्दिष्टम् ॥ छाया ॥
येनेति, यतो मनःपर्यायज्ञानविषयगतानां परमनोद्रव्यविशेषाणां विशेषरूपतया बाह्यस्य चिन्त्यमानस्य घटादेर्लिङ्गिनो गमकत्वोपपत्तेर्देर्शनं सामान्यरूपं नास्ति, द्रव्यरूपाणां चिन्त्यमानालम्बनपर मनोद्रव्यगतानां चिन्त्याविशेषाणां विशेषरूपतया बाह्यार्थगमकत्वात् 15 ताहि मनःपर्यायज्ञानं विशेषाकारत्वात् ज्ञानमेव, ग्राह्यदर्शनाभावात् ग्राहकेऽपि तदभावः, ततो मनः पर्यवाख्यो बोधो नियमाज्ज्ञानमेवागमे निर्दिष्टो न तु दर्शनम् । केवलन्तु सामान्यविशेषोपयोगैकरूपत्वात् केवलं ज्ञानं केवलं दर्शनं चेत्यागमे निर्दिष्टम् ॥ ७३ ॥
तथा पुनरप्येकरूपानुविद्धामने करूपतां दर्शयन्नाह
चक्खु अचक्खुअव अवहिकेवलाण समयम्मि दंसणविअप्पा | परिपढिया केवलणाणदंसणा तेण ते अण्णा ॥ ७४ ॥
चक्षुरचक्षुरवधिकेवलानां समये दर्शनविकल्पाः । परिपठिताः केवलज्ञानदर्शने तेन ते अन्ये ॥ छाया ||
चक्षुरिति, स्वसमये चक्षुरचक्षुरवधिकेवलानां दर्शनभेदाः परिपठिताः, तेन दर्शनमध्ये पाठाद्दर्शनमपि केवलं ज्ञानमध्ये पाठाज्ज्ञानमपि, अतः केवलज्ञानदर्शने भिन्ने, न चात्यन्तं 25 तयोर्भेद एव, केवलान्तर्भूतत्वेन तयोरभेदात् न चैत्रमभेदाद्वैतमेव, सूत्रयुक्तिविरोधात, तत्परिच्छेदकस्वभावतया कथञ्चिदेकत्वेऽपि तथा तद्व्यपदेशात् ॥ ७४ ॥
एतदेव दृष्टान्तद्वारेणाह-
"Aho Shrutgyanam"