________________
सर्वोपयोगविचारः ।
नाणं
दंसणमुग्गहमेतं घडो ति णिव्वन्नणा हवह जह एत्थ केवलाण वि बिसेसणं एत्तियं चैव ॥ ७५ ॥
दर्शनवग्रहमात्रं घट इति निर्वर्णना भवति ज्ञानम् । यथात्र केवलयोरपि विशेषणतावचैव || छाया
दर्शनमिति, मतिरूपे बोधेऽवग्रहमात्रं दर्शनम् इदं तदित्यव्यपदेश्यम्, घट इति निश्च- 5 येन वर्णना निश्चयात्मिका, यथा मतिज्ञानं तथेहापि केवलयोरप्येतन्मात्रेणैव विशेषः, एकासभेदाभेदपक्षे तत्स्वभावयोः पूर्वोक्तदोषप्रसङ्गात्, अजहद्वृत्यैकरूपयोरेवाभिनिबोधिकरूपयोस्तत्तद्रूपतया तथाव्यपदेशस्यासादनात् कथञ्चिदेकाने कात्मकत्वोपपत्तेर्भेदेकान्ते तयोरध्यभावापत्तेः ॥ ७५ ॥
इतश्व कथञ्चिद्भेद इत्याह-
दंसणपुचं गाणं पाणणिमित्तं तु दंसणं णत्थि | तेण सुविणिच्छियामो दंसणणाणण अण्णत्तं ॥ ७६ ॥
दर्शनपूर्व ज्ञानं ज्ञाननिमित्तं तु दर्शनं नास्ति । तेन सुविनिश्चिनुमः दर्शनज्ञानयोरन्यत्वम् ॥ छाया ||
: २४७ :
यद्यग्रहमात्र दर्शनमिति मन्यसे विशेषितं ज्ञानम् । मतिज्ञानमेव दर्शनमेवं सति भवति निष्पन्नम् ॥ छाया ||
दर्शनेति, दर्शनपूर्वं ज्ञानं ज्ञाननिमित्तन्तु दर्शनं नास्ति यतः सामान्यमुपलभ्य पश्चा- 15 द्विशेषमुपलभते न विपर्ययेणेत्येवं छद्मस्थावस्थायां हेतुहेतुमद्भावक्रमः । तेनाध्यवगच्छामः कथचित्तयोर्भेद इति, अय क्षयोपशमनिबन्धनः, केवलिनि च तदभावादक्रम इति ॥७६ ||
नवमात्रं मतिज्ञानं दर्शनमिति, तद्युक्तमिति व्याप्तेरित्याह
जइ उग्गहमित्तं दंसणं ति मण्णसि विसेसिअं णाणं । महणाणमेव दंसणमेवं सह होइ निष्कण्णं ॥ ७७ ॥
१ घटाका भिलापजनकं घटे मतिज्ञानमित्यर्थः । विशेष इति, एकमेव केवलं सामान्यांशे दर्शनं त्रिशेषांशे च ज्ञानमित्यर्थः ॥ २ क्रमाभ्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तरं दर्शनं वाच्यम्, सर्वासां लब्धीनां साकारोपयोगप्राप्यत्वेन प्रथमं ज्ञानोत्पत्त्युपगमौचित्यात् तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमभ्युपगन्तव्यं तश्चात्यन्तादर्शनव्याहृतमिति भावः ।।
"Aho Shrutgyanam"
10
20