________________
: १४८ : सम्मतितस्वसोपाने
[ अष्टाविंशम् यदीति, मत्यवबोधे यद्यवग्रहमानं दर्शनं विशेषितं ज्ञानमिति मन्यसे एवं सति मतिज्ञानमेव दर्शनं प्राप्तं, न चैतधुसम्. स द्विविधोऽष्ट चतुर्भेदः [ तत्त्वार्थ अ० २, सू० ९] इति सूत्रविरोधात् ॥ ७७ ॥ तथा
एवं सेसिदियदसणम्मि नियमेण होइ ण य जुत्तं । अह तत्थ णाणमित्तं घेप्पइ चक्खुम्मि वि तहेव ।। ७८ ।। एवं शेषेन्द्रियदर्शनेषु नियमेन भवति न च युक्तम् ।
अथ तत्र ज्ञानमात्रं गृह्यते चक्षुष्यपि तथैव ॥ छाया ॥ एवमिति, एवं शेषेन्द्रियदर्शनेत्रप्यवग्रह एव दर्शनमित्यभ्युपगमेन मतिज्ञानमेव 10 तदिति, न च तद्युक्तं पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भवत्
तज्ज्ञानमेव, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात् , अत एव तत्र श्रोत्रज्ञानं इत्यादिव्यपदेश उपलभ्यते, श्रोत्रदर्शनं घ्राणदर्शनमित्यादिव्यपदेशस्तु नागमे काचेत् प्रसिद्धस्तर्हि चक्षुष्यपि तथैव गृह्यताम् , चक्षुर्ज्ञानमिति, न तु चक्षुदर्शनमिति । अथ तत्र दर्शनं इतरत्रापि तथैव
गृह्यताम् ।। ७८ ॥ 15 नववग्रहस्य मतिभेदत्वान्मतेश्च ज्ञानरूपत्वादवग्रहरूपस्य दर्शनस्याभाव एव भवेत् , उच्यते--
णाणं अपुढे अविसए य अत्यम्मि दंसणं होइ । मोत्तूण लिंगओजंअणागयाईयविसएसु ।। ७९ ॥
शानमस्पृष्टेऽविषये चार्थे अर्थे दर्शनं भवति ।
मुक्त्वा लिङ्गाद्यदनागातातीतविषयेषु ॥ छाया ॥ ज्ञानमिति, अस्पृष्टेऽर्थरूपे चक्षुषा य उदेति प्रत्ययः स चक्षुर्दर्शनं ज्ञानमेव सदिन्द्रियाणामविषये च परमाणवादावर्थे मनसा ज्ञानमेव सदचक्षुर्दर्शनम् , मुक्त्वा मेघोन्नति. रूपाल्लिङ्गाद्भविष्यदृष्टौ नदीपूराद्वा उपर्यतीतवृष्टौ यज्ज्ञानं तस्यास्पृष्टाविषयार्थस्याप्य
दर्शनत्वात् ॥ ७९ ॥ 25 यद्यस्पृष्टाविषयार्थज्ञानं दर्शनमभिधीयते ततः--
मणपज्जवणाणं दसणं ति तेणेह होइ ण य जुत्तं । भण्णइ णाणं णोइंदियम्मि ण घडादओ जम्हा ।। ८०॥
20
"Aho Shrutgyanam"