SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञोपयोगविचारः । :२४९ मनःपर्यवज्ञानं दर्शन मिति तेनेह भवति न च युक्तम् । भण्यते शानं नोइन्द्रिये न घटादयो यस्मात् ॥ छाया ॥ मन इति, एतेन लक्षणेन मनःपर्यवज्ञानमपि दर्शनं प्राप्तं परकीयमनोगतानां घटादीनामालम्ब्यानां तत्रासत्त्वेनास्पृष्टेऽविषये च घटादावर्थे तस्य भावात् , न चैतद्युक्तम् , आगमे तस्य दर्शनत्वेनापाठात् , उच्यते, नोइन्द्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्या. 5 यबोधरूपं ज्ञानमेव न दर्शनम् , यस्मादस्पृष्टा घटादयो नास्य विषया लिङ्गानुमेयत्वात्तेषाम् । ननु च परकीयमनोगतार्थाकारविकल्पस्योभयरूपत्वात् किमिति तद्ब्राहिणो मनःपर्यायावबोधस्य न दर्शनरूपता, न, मनोविकल्पस्य बाह्यार्थचिन्तनरूपस्य विकल्पात्मकत्वेन ज्ञानरूपत्वात् सदाहिणो मन:पर्यायज्ञानस्यापि तद्रूपतैव, घटादेस्तु तत्र परोक्षतैवेति दर्शनस्याभाव एव, मनोविकल्पाकारस्योभयरूपत्वेऽपि छानस्थिकोपयोगस्य परिपूर्णवस्तुग्राहकत्वा- 10 सम्भवाञ्च न मनःपर्यायज्ञाने दर्शनोपयोगसम्भवः ।। ८० ॥ किश्च मइसुयणाणणिमित्तो छउमत्थे होइ अत्थउवलंभो। एगयरम्मि वि तेसिं ण दंसणं दसणं कत्तो ।। ८१ ॥ मतिश्रुतज्ञाननिमित्तः छद्मस्थ भवत्यर्थोपलम्भः । एकतरस्मिन्नपि तयोर्न दर्शनं दर्शनं कुतः ॥ छाया ॥ मतीति, आगमे छद्मस्थानां मतिश्रुतज्ञाननिमित्तोऽर्थोपलंभ उक्तः तयोरेकतरस्मिन्नपि न दर्शनं सम्भवति, न तावद वग्रहो दर्शनं तस्य ज्ञानात्मकत्वात्ततः कुतो दर्शन ? नास्तीत्यर्थः, अस्पृष्टेऽविषये चार्थे ज्ञानमेव दर्शनं नान्यदिति प्रसक्तम् ॥ ८१ ॥ ननु श्रुतमस्पष्टे विषये किमिति दर्शनं न भवेदित्याह 20 जं पञ्चक्खग्गहणं ण इन्ति सुयणाण सम्मिया अत्था । तम्हा दसणसद्दो ण होइ सयले वि सुयणाणे ।। ८२ ।। यस्मात् प्रत्यक्षग्रहणं न यन्ति श्रुतज्ञानसंमिता अर्थाः । तस्माद्दर्शनशब्दो न भवति सकलेऽपि श्रुतज्ञाने ॥ छाया ।। यस्मादिति, यस्मात् श्रुतज्ञानप्रमिताः पदार्था उपयुक्ताध्ययनविषयास्तथाभूतार्थवाचक- 25 १ तथा च मनःपर्यवज्ञानस्य व्यजनावग्रहाविषयार्थप्रत्यक्षत्वेऽपि बाह्यविषयव्यभिचारेण स्वग्राह्यताबच्छेदकावच्छेदेन प्रत्यक्षत्थाभावान्न दर्शनत्वमिति भावः ॥ 15 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy