SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ अष्टाविंशम् स्वात् श्रुतशब्दस्य प्रत्यक्षं न यान्ति अतो न श्रुतं चक्षुर्दर्शनसंझं मानसचक्षुर्दर्शनं श्रुतं भविध्यतीत्येतदपि नास्ति, अवग्रहस्य मतित्वेन पूर्वमेव दर्शनतया निरस्तत्वात् ।। ८२ ॥ नन्वेवमवधिदर्शनस्याप्यभावः स्यादित्याह जं अपुट्ठा भावा ओहिण्णाणस्स होंति पञ्चक्खा । तम्हा ओहिण्णाणे दंसणसहो वि उवउत्तो ॥ ८३ ।। यस्मादस्पृष्टा भावा अवधिज्ञानस्य भवन्ति प्रत्यक्षाः । तस्मादवधिशाने दर्शनशब्दोऽप्युपयुक्तः ॥ छाया ॥ यस्मादिति, यस्मादस्पृष्टा भावा अण्वादयोऽवधिज्ञानस्य प्रत्यक्षा भवन्ति चक्षुर्दर्शनस्येव रूपसामान्यम, ततस्तत्रैव दर्शनशब्दोऽप्युपयुक्तः ।। ८३ ।। 10 केवलावबोधस्तु ज्ञानदर्शनोपयोगद्वयात्मको ज्ञानमेव सदर्शनमप्युच्यत इत्याह-~ जं अप्पुढे भावे जाणइ पासइ य केवली णियमा । तम्हा तं गाणं ईसणं च अविसेसओ सिद्धं ।। ८४ ॥ यस्मादस्पृष्टान् भावान् जानाति पश्यति च केवली नियमात् । तस्मात्तज्ज्ञानं दर्शनञ्चाविशेषतः सिद्धम् ॥ छाया । 15 यस्मादिति, केवली यतोऽपृष्ठान भावानवश्यन्त या चक्षुष्मानिव पुरःस्थितं उभय. प्राधान्येन पश्यति जानाति च, तस्मात्तत्केवलावबोधस्वरूपं ज्ञानमप्युच्यते दर्शनमपि, उभयाभिधाननिमित्तस्याविशेषात् , न पुनर्ज्ञानमेव सदविशेषतोऽभेदतो दर्शनमिति सिद्धम् , यतो न ज्ञानमात्रमेव तत् , नापि दर्शनमात्रं केवलं नाप्युभयाक्रमरूपं परस्परविविक्तम् , नापि क्रमस्वभावम् , अपि तु ज्ञानदर्शनात्मकमेकं प्रमाणमन्यथोक्तवत्तदभावप्रसङ्गात् । छद्मस्था20 वस्थायां तु प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यनपगतावरणस्यात्मनो दर्शनोपयोग समये ज्ञानोपयोगस्यासम्भवादप्राध्यकारिनयनमनःप्रभवार्थावग्रहादिमतिज्ञानोपयोगप्राक्तनी अवस्था अस्पृष्टावभासिग्राह्यग्राहकत्वपरिणत्यवस्थाव्यवस्थितात्माप्रबोधरूपा चक्षुरचक्षुर्दर्शनव्यपदेशमासादयति । द्रव्यभावेन्द्रियालोकमतिज्ञानावरणकर्मक्षयोपशमादिसामग्रीप्रभवरूपादिविषयग्रहणपरिणतिश्चात्मनोऽवग्रहादिरूपा मतिज्ञानशब्दवाच्यतामश्नुते श्रुतज्ञानावरण. 95 २ अक्षजस्थैव व्यवहारतः प्रत्यक्षत्वात् तथा व्यन्जनावमहाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वम्, अचक्षदशनमित्यत्र नः पयुदासार्थकलादप्राप्यकारित्वेन भनस एव चन:सदृशत्वात्मानसदर्शन मेव प्राय न नाणादिदर्शनम् ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy