________________
सोपानम् ] सर्वोपयोगविचारः ।
: २५१: कर्मक्षयोपशमवाक्यश्रवणादिसामग्रीविशेषनिमित्तप्रादुर्भूतो वाक्यार्थग्रहणपरिणतिस्वभावो वाक्य श्रवणानिमित्तो वा आत्मनः श्रुतज्ञानमितिशब्दाभिधेयतामाप्नोति । रूपिद्रव्यग्रहणपरिगतिविशेषस्तु जीवस्य भवगुणप्रत्ययावधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचनादिबाह्य निमित्तनिरपेक्षोऽवधिज्ञानमिति व्यपदिश्यते तज्ज्ञैः, अवधिदर्शनावरणकर्मक्षयोपशमप्रादुर्भूतस्तु स एव तद्र्व्यसामान्यपर्यालोचनस्वभावोऽवधिदर्शनभाग्भवति, अर्धवृतीयद्वी- 5 पसमुद्रान्तर्वतिसकलमनोविकल्पग्रहणपरिणतिर्मन:पर्यायज्ञानावरणकर्मक्षयोपशमादिविशिष्ठसामग्रीसमुत्रादिता चक्षुरादिकरणनिरपेक्षस्यात्मनो मनःपर्यायज्ञानमिति वदन्ति विद्वांसः । छानस्थिकोपयोगश्चात्मा स्वप्रदेशावरणक्षयोपशमद्वारेण प्रतिपद्यते न त्वनन्तज्ञेयज्ञानस्वभावस्यात्मन, एतदेव खण्डशः प्रतिपत्तिलक्षणं पारमार्थिक रूपं सामान्यविशेषात्मकवस्तुविस्तरव्यापि, युगपत्परिच्छेदस्वभावद्वयात्मकैककेवलावबोधताविकरूपत्वात्तस्य । तञ्च 10 तस्य स्वरूप केवलज्ञानदर्शनावरणकर्मक्षयाविर्भूतं करणक्रमव्यवधानातिवतिसकललोकालोकविषयत्रिकालस्वभावपरिणामभेदानन्तपदार्थयुगपत्सामान्यविशेषसाक्षात्करणप्रवृत्तं केवलज्ञानं केवलदर्शन मिति च व्यपदिश्यते । तेनावग्रहरूप आभिनिबोधो दर्शनं स एव चेहाविरूपो विशेषग्राहको ज्ञानं तद्व्यतिरिक्तस्यापरस्य ग्राहकस्याभावात् तस्यैवैकस्य तथाग्रहणात तथा व्यपदेशादुत्फणविफणावस्थासर्पद्रव्यवत् ततस्तयोरवस्थयोरव्यतिरेकात , तस्य च तद्रूपत्वा- 15 देक एवाभिनिबोधो दर्शनं मतिज्ञानं चाभिधीयत इति सूत्रकृतोऽभिप्राय इति यत्कैश्चिव्याख्यातं तदसङ्गतं लक्ष्यते, आगमविरोधात् , युक्तिविरोधाञ्च, न ह्येकान्ततोऽभेदे पूर्वमवग्रहो दर्शनं पश्चादीहादिकं ज्ञानं तयोश्च तत्रान्तर्भाव इति शक्यमभिधातुम् , कथञ्चिनेदनिबन्धनस्वादस्य, आत्मरूपतया तु तयोरभेदोऽभ्युपगम्यत एव । न चैकस्यैव मतिज्ञानस्योभयमध्यपातादुभयव्यपदेशः, अवग्रहस्य दर्शनत्वे अवग्रहादिधारणापर्यन्तं मतिज्ञानमित्यस्य व्याहतेः, 20 तस्य वाऽदर्शनत्वे अवग्रहमानं दर्शनमित्यस्य विरोधात् , आगमविरोधश्च तद्व्यतिरेकेण दर्शनानभ्युपगमे तदभ्युपगमे वा अष्टाविंशतिभेदमतिज्ञानव्यतिरिक्तदर्शनाभ्युपगमात् कुतो ज्ञानमेव दर्शनं छद्मस्थावस्थायाम् , केवल्यवस्थायान्तु क्षीणावरणस्यात्मनो नित्योपयुक्तत्वात् सदैव दर्शनावस्था, वर्तमानपरिणतेर्वस्तुनोऽवगमरूपायाः प्राक् तथाभूतानवबोधरूपत्वासम्भ. वात् , तथाभूतज्ञानविकलावस्थासम्भवे वा प्रागितरपुरुषाविशेषप्रसङ्गात् । ततो युगपज्ज्ञान. 25 दर्शनोपयोगद्वयात्मकैकोपयोगरूपः केवलावबोधोऽभ्युपगन्तव्य इति सूरेरभिप्रायः ।। ८४ ॥ ध्यात्मक एक एव केवलावबोध इति दर्शयन्नाह--
साईअपज्जवसियं ति दो वि ते ससमयं हवइ एवं । परतित्थियवत्तव्यं च एगसमयंतरुप्पाओ ।। ८५ ॥
"Aho Shrutgyanam"