SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 10 :२५२: सम्मतितत्त्वसोपाने [ अष्टाविंशम् साद्यपयेयसिते इति द्वे अपि ते स्वसमयो भवत्येवम् । परतीर्थिकवक्तव्यञ्च एकसमयान्तरोत्पादः ॥ छाया ॥ सादीति, द्वे अपि ते ज्ञानदर्शने यदि युगपनाना न भवतस्तदा स्वसिद्धान्तः सायपयवसिते इति घटते, यस्तु तयोरेकसमयान्तरोत्पादः यदा जानाति तदा न पश्यतीत्येवम 5 भिधीयते स परतीर्थिकशास्त्रं नाहद्वचनं नयाभिप्रायेण प्रवृत्तत्वादिति ।। ८५ ॥ एवम्भूतं वस्तुतत्त्वं श्रद्दधानः सम्यग्ज्ञानवानेव पुरुषः सम्यग्दृष्टिरित्याह एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे सणसद्दो हवइ जुत्तो ॥ ८६ ॥ एवं जिनप्रशप्तान् श्रद्दधानस्य भावतो भावान् । पुरुषस्याभिनिबोधे दर्शनशब्दो भवति युक्तः ॥ छाया ॥ एवमिति, एवमनन्तरोक्तविधिना जिनप्रज्ञप्तान् भावान् श्रद्दधानस्य पुरुषस्य यदा. भिनिबोधिकं ज्ञानं तदेव सम्यग्दर्शनं विशिष्टावबोधरूपाया रुचेः सम्यग्दर्शनशब्दवाच्यत्वादिति भावः ॥ ८६ ॥ ननु यदि सम्यग्ज्ञाने सम्यग्दर्शनं नियमेन, दर्शनेऽपि रुचिलक्षणे सम्यग्ज्ञानं किमिति 15 न स्यात्, न, एकान्तरुचावपि सम्यग्ज्ञानप्रसक्तेरित्याह सम्मण्णाणे णियमेण दसणं दसणे उ भयणिजं । सम्मण्णाण च इम ति अत्थओ होइ उववण्ण ।। ८७ ॥ सम्यग्ज्ञाने नियमेन दर्शनं दर्शने तु भजनीयम् । सम्यग्ज्ञानञ्चेदमित्यर्थतो भवति उपपन्नम् ॥ छाया ॥ 20 सम्यग्ज्ञान इति, सम्यग्ज्ञाने नियमेन सम्यग्दर्शनम् , सम्यग्दर्शने तु विकल्पनीयं सम्यग्ज्ञानम् , एकान्तरुचौ न सम्भवति अनेकान्तरुचौ तु सम्यग्दर्शने समस्ति । यतश्चै. वमतः सम्यग्ज्ञानश्चेदं सम्यग्दर्शनश्च विशिष्टरुचिस्वभावमवबोधरूपमर्थतः सामर्थ्यादुपपन्नं भवति ।। ८७ ।। अत्र साद्यपर्यवसितं केवलज्ञानं सूत्रे प्रदर्शितम् , अनुमानश्च तथाभूतस्य तस्य प्रति. 25 पादकं सम्भवति, तथाहि धातिकर्मचतुष्टयप्रक्षयाविभूतत्वात् केवलं सादि, न च तथोत्पन्नस्य पश्चात्तस्यावरणमस्ति, अतोऽनन्तमिति न पुनरुत्पद्यते विनाशपूर्वकत्वादुत्पादस्य, न हि घटस्याविनाशे कपालानामुत्पादो दृष्ट इत्यनुत्पादव्ययात्मकं केवलमित्यभ्युपगमवतो निराकसुमाह "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy