________________
सोपानम्
सर्वज्ञोपयोगविचार । केवलणाणं साई अपज्जवसियं ति दाइयं सुत्ते । तेत्तियमित्तोत्तूणा केइ विसेसं ण इच्छंति ।। ८८ ॥ केवलशानं साद्यपर्यवसितमिति दर्शितं सूत्रे ।।
तावन्मात्रे दृप्ताः केचन विशेष नेच्छन्ति ॥ छाया ।। केवलेति, केवलज्ञानं साद्यपर्यवसितमिति सूत्रे दर्शितमित्येतावन्मात्रेण गर्विताः केचन है विशेष पर्यायं पर्यवसितत्वस्वभावं नेच्छन्ति ते तु न सम्यग्वादिनः ॥ ८८ ॥ यतः
जे संघयणाईया भवत्थकेवलिविसेसपज्जाया। ते सिज्झ माणसमये ण होति विगयं तओ होइ ॥ ८९ ॥ ये संहननादयो भवस्थकेयलिविशेषपर्यायाः ।
ते सिद्धयत्समये न भवन्ति विगतं ततो भवति ॥ छाया ॥ य इति, वज्रर्षभनाराचसंहननादयो ये भवस्थस्य केवलिन आत्मपुद्गलप्रदेशयोरन्यो. न्यानुवेधाव्यवस्थितेः विशेषपर्यायास्ते सिद्ध्यत्समयेऽपगच्छन्ति, तदपगमे तदव्यतिरिक्तस्य केवलज्ञानस्याप्यात्मद्रव्यद्वारेण विगमात् , अन्यथाऽवस्थातुरवस्थानामात्यन्तिकभेदप्रसक्तेः केवलज्ञानं ततो विगतं भवतीति सूत्रकृतोऽभिप्रायः ।। ८९ ॥ .
15 विनाशवत् केवलज्ञानस्योत्पादोऽपि सिद्धयत्समय इत्याह
सिद्धत्तणेण य पुणो उप्पण्णो एस अस्थपजाओ। केवल भावं तु पडुच केवलं दाइयं सुत्ते ।। ९० ॥ सिद्धत्वेन च पुनरुत्पन्न एषोऽर्थपर्यायः । .. केवलभावं तु प्रतीत्य केवलं दर्शितं सूत्रे ॥ छाया ॥
20 सिद्धत्वेनेति, अशेषकर्मविगमस्वरूपेण सिद्धत्वेन पुनः पूर्ववत् केवलज्ञानाख्य एषोऽर्थः पर्याय उत्पन्नः, वस्तुन उत्पादविगमध्रौव्यात्मकत्वात् , अन्यथा वस्तुत्यहानेः । सूत्रे यत्व. पर्यवसितत्वं केवलस्य दर्शितं तत्तस्य केवलभावं सत्तामात्रमाश्रित्य, तस्य कथञ्चिदात्माव्यतिरिक्तत्वात् , आत्मनश्च द्रव्यरूपतया नित्यत्वात् ॥ ९० ॥
ननु केवलज्ञानस्यात्मरूपतामाश्रित्य तस्योत्पादविनाशाभ्यां केवलस्य तौ भवतो न 25 चात्मनः केवलरूपतेति कुतस्तद्वारेण तस्य तावित्याह
जीवो अणाइणिहणो केवलणाणं तु साइयमणंतं । इअ थोरम्मि विसेसे कह जीवो केवलं होइ ।। ९१ ॥
"Aho Shrutgyanam"