________________
: २५४ :
10
जीव इति, जीवोऽनादिनिधनः केवलज्ञानन्तु साद्यपर्यवसितमिति स्थूरे विरुद्धधर्माध्यासलक्षणे विशेषे छायातपवदत्यन्तभेदात् कथं जीवः केवलं भवेत्, जीवस्यैव तावत् 5 केवलरूपता असङ्गता, दूरतः संहननादेरिति भावः ॥ ९१ ॥
15
सम्मतितत्त्वसोपाने
जीवोsनादिनिधनः केवलज्ञानन्तु सादिकमनन्तम् । इति स्थूरे विशेषे कथं जीवः केवलं भवेत् || छाया ||
25
तम्हा अण्णो जीवो अण्णे णाणाइपज्जवा तस्स । उवसमियाई लक्खणविसेसओ केइ इच्छति ॥ ९२ ॥ तस्मादन्यो जीवोऽन्ये ज्ञानादिपर्यवा । तस्य । औपशमिकादिलक्षणविशेषतः केचिदिच्छन्ति ॥ छाया ॥
'
तस्मादिति, विरुद्धधर्माध्यासतोऽन्यो जीवो ज्ञानादिपर्यायेभ्यः, अन्ये च ततो ज्ञानादिपर्याया लक्षणभेदाच्च तयोर्भेदः, तथाहि ज्ञानदर्शनयोः क्षायिकः क्षायोपशमिको वा भावो लक्षणम्, जीवस्य तु पारिणामिकादिर्भावो लक्षणमिति केचिद्व्याख्यातारः प्रतिपन्नाः ॥ ९२ ॥
एतन्निषेधायाह----
[ अष्टाविंशम्
अह पुण पुव्वपयुक्त्त अत्थो एगन्तपक्खपडिसेहे । तहवि उयाहरणमिणं ति हेउपडिजोअणं वोच्छं ॥ ९३ ॥
अथ पुन: पूर्वप्रयुक्तोऽर्थ एकान्तपक्षप्रतिषेधः ।
तथापि उदाहरणमिदमिति हेतुप्रतियोजनं वक्ष्ये ॥ छाया ॥
अथेति, यद्यप्ययं पूर्वमेव द्रव्यपर्याययोर्भेदाभेदैकान्तपक्षप्रतिषेधलक्षणोऽर्थः प्रयुक्तः उत्पादस्थितिभङ्गा' (गा. १२) इत्यादिनाऽनेकान्तव्यवस्थापनात्, तथापि केवलज्ञानेऽनेका20 न्तात्मकैकरूपसाधनस्य हेतोः साध्येनानुगमप्रदर्शक प्रमाणविषयमुदाहरणमिदं वक्ष्ये ॥९३॥
तदेवाह
जह कोइ सद्विवरिसो तीसइवरिसो णराहिवो जाओ । उभयत्थ जायसद्दो वरिसविभागं विसेसेइ ॥ ९४ ॥
यथा कश्चित् षष्टिवर्षः त्रिंशद्वर्षो नराधिपो जात: । उभयत्र जातशब्दो वर्षविभागं विशेषयति ॥ छाया ||
यथेति, यथा कश्चित् पुरुषः षष्टिवर्षः सर्वायुष्क्रमाश्रित्य त्रिंशद्वर्षः सन्नराधिपो जातः, उभयत्र मनुष्ये राजनि च जातशब्दोऽयं प्रयुक्तो वर्षविभागमेवास्य दर्शयति, षष्टिवर्षायु
" Aho Shrutgyanam"