SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सर्वज्ञोपयोगविचारः । कस्य पुरुषसामान्यस्य नराधिपपर्यायोऽयं जातः, अभेदाध्यासितभेदात्मकत्वात् पर्यायस्य, नराधिपपर्यायात्मकत्वेन चायं पुरुषः पुनर्जातो भेदानुषक्ताभेदात्मकत्वात् सामान्यस्थ, एकान्तभेदेऽभेदे वा तयोरभावप्रसङ्गात् , निराश्रयस्य पर्यायप्रादुर्भावस्य तद्विकलस्य वा सामा. न्यस्यासम्भवात् ॥ ९४ ॥ दृष्टान्तं प्रसाध्य दार्टान्तिकयोजनायाह एवं जीवदव्वं अणाइणिहणमविसे सियं जम्हा । रायसरिसो उ केवलिपजाओ तस्स सविसेसो ।। ९५ ॥ एवं जीवद्रव्यमनादिनिधनमविशेषितं यस्मात् । राजसहशस्तु केवलिपर्यायस्तस्य सविशेषः ॥ छाया ! एवमिति, उक्तदृष्टान्तवज्जीवद्रव्यमनादिनिधनमविशेषितभव्यजीवरूपं सामान्यं यतो 10 राजत्वपर्यायसदृशः केवलित्वपर्यायस्तथाभूतजीवद्रव्यस्य विशेषः, तस्मात्तेन रूपेण जीवद्रव्य. सामान्यस्यापि कथञ्चिदुत्पत्तेः, सामान्यमप्युत्पन्नं प्राक्तनरूपस्य विगमात् सामान्यमपि तद. भिन्नं कथञ्चिद्विगतम् , पूर्वोत्तरपिण्डघटपर्यायपरित्यागोपादानप्रवृत्तैकमृद्रव्यवत् , केवलजीवरूपतया वाऽनादिनिधनत्वान्नित्यं द्रव्यमभ्युपगन्तव्यम् , प्रतिक्षणभाविपर्यायानुस्यूतस्य मृद्रव्यस्याध्यक्षतोऽनुभूतेने दृष्टान्तासिद्धिः, तस्मात् केवलं कथञ्चित्सादि कथञ्चिदनादि, कथ• 15 श्चित्सपर्यवसानं कथश्चिदपर्यवसानं सत्त्वादात्मवदिति स्थितम् ॥ ९५ ॥ न द्रव्यं पर्यायेभ्यो भिन्नमेवेत्याह जीवो अणाइनिहणो जीवत्ति य णियमओ ण वत्तव्यो। जं पुरिसाउयजीवो देवाउयजीवियविसिट्टो ॥ ९६ ।। जीवोऽनादिनिधनो जीव इति च नियमतो न वक्तव्यम् । यत् पुरुषायुष्कजीवो देवायुष्कजीत्रितविशिष्टः ॥ छाया । जीव इति, जीवोऽनादिनिधनः, जीव एव विशेषविकल इति नियमतो न वक्तव्यम् , यतः पुरुषायुष्कजीवो देवायुष्कजीवाद्विशिष्टः, जीव एवेति स्वभेदे पुरुषजीव इत्यादि भेदो न भवेत् , केवलस्य सामान्यस्य विशेषप्रत्ययाभिधानानिबन्धनत्वात् , निनिमित्तस्यापि 25 विशेषप्रत्ययाभिधानस्य सम्भवे सामान्यप्रत्ययाभिधानस्यापि निर्निमित्तस्यैव भावात् तन्निबन्धनसामान्याभ्युपगमोऽध्ययुक्तः स्यादिति सर्वाभावः । न च विशेषप्रत्ययस्य बाधारहितस्यापि मिथ्यात्वम् , अन्यत्रापि तत्प्रसक्तेरिति ॥ ९६ ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy