________________
सम्मतितस्वसोपाने
[ अष्टाविंशम् केवलज्ञानस्य कथञ्चिदात्माव्यतिरेकादात्मनो वा केवलज्ञानाव्यतिरेकात् कथञ्चिदेकत्वं तयोरित्याह
संखेजमसंखेज़ अणंतकप्पं च केवलं जाणं । तह रागदोसमोहा अण्णे वि य जीवपज्जाया ॥ ९७ ॥ संख्येयमसंख्येयमनन्तकल्पञ्च केवलं ज्ञानम् ।
तथा रागद्वेषमोहा अन्येऽपि च जीवपर्यायाः ।। छाया ॥ . संख्येयमिति, आत्मन एकत्वात् कथञ्चित्तदव्यतिरिक्त केवलमप्येकं केवलस्य वा ज्ञानदर्शनरूपतया द्विरूपत्वात्तदव्यतिरिक्त आत्मापि द्विरूपः, असंख्येयप्रदेशात्मकत्वादात्मनः
केवलमप्यसंख्येयम् , अनन्तार्थविषयतया केवलस्यानन्तत्वादात्माऽप्यनन्तः। एवं रागद्वेषमोहा 10 अन्येऽपि जीवपर्यायाश्छद्मस्थावस्थाभाविनः संख्येयासंख्येयानन्तप्रकाराः, आलम्ब्यभेदात्त
दात्मकत्वात्संसार्यात्मापि तद्वत्तथैव स्यात् , रागादीनाश्चैकाद्यनन्तभेदत्वमात्मपर्यायत्वात् , यो ह्यात्मपर्यायः स एकाद्यनन्तभेदो यथा केवलावबोधस्तथा च रागादय इति स्थित्युत्पत्तिनिरोधात्मकत्वमहत्यपि सिद्धमिति ॥ ९७ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मति तत्त्वसोपानस्य सर्वज्ञोप
योगविचारात्मकमष्टाविंशं सोपानम् ॥
15
सामान्यविशेषात्मकत्वस्थापनम् । अथ ज्ञानदर्शनयोरिव सामान्यविशेषयोरपि परस्पराविनिर्मागरूपतामाह---
सामण्णम्मि विसेसो विसेसपक्खे य वयणविणिवेसो। दवपरिणाममण्णं दाएइ तयं च णियमेह ।। ९८ ॥
सामान्ये विशेषो विशेषपक्षे च वचनविनिवेशः ।
द्रव्यपरिणाममन्यं दर्शयति तकं च नियमयति ॥ छाया ॥ ___ सामान्य इति, अस्तीत्येतस्मिन् सामान्ये द्रव्यमित्ययं विशेषः, तथा विशेषपक्षे च घटादौ नामनामवतोरभेदाद्वचनस्य सत्तासामान्यस्य विनिवेशः प्रदर्शनम् । सत्तास्यस्य द्रव्यस्य पृथिव्याख्यं परिणामं सत्तारूपापरित्यागेनैव वृत्तमन्यं दर्शयति, विशेषाभावे सामा
"Aho Shrutgyanam"