________________
S0
सोपानम् ।
सामान्यविशेषात्मकत्यस्थापनम् । न्यस्याप्यभावप्रसक्तः । यद्यदात्मक तत्तदभावे न भवति, घटाद्यन्यतमविशेषाभावे मृद्वत् , विशेषात्मकम्व सामान्यमिति तदभावे तस्याप्यभावः स्यात् । तथा तश्च विशेषं द्वितीयपक्षे सामान्यात्मनि नियमयति, विशेषः सामान्यात्मक एव, तदभावे तस्याप्यभावप्रसङ्गात् , यतः सामान्यात्मकस्य विशेषस्य सामान्यभावे घटादेरिव मृदभावे न युक्तो भावः ॥९८॥
न चैकान्तेन सामान्यं विशेषादन्यत्, न वा विशेषास्ततोऽन्ये नियमेन, प्रमाण- 5 विरोधादित्याह
एगंतणिव्विसेसं एगंतविसेसियं च वयमाणो । दव्वस्स पजवे पजवाहि दवियं णियत्तेइ ॥ ९९ ॥ एकान्तनिर्विशेष एकान्तविशेषञ्च वदन् ।
द्रव्यस्य पर्यायान् पर्यायेभ्यो द्रव्यं निवर्त्तयति ॥ छाया ॥ एकान्तेति, एकान्तेन विशेषविकलं सामान्यं वदन् द्रव्यस्य पर्यायान् ऋजुत्वादीन् निवर्तयति, ऋजुवक्रतापर्यायात्मकाङ्गुल्यादिद्रव्यस्याध्यक्षादिप्रमाणप्रतीयमानस्य विनिवृत्तिप्रसक्तेरध्यक्षादिप्रमाणबाधापत्तिः, तथा एकान्ततः सामान्यरहितं विशेष वदन् तेभ्यो द्रव्यं निवर्तयति, अङ्गुल्यादिद्रव्याव्यतिरिक्त वक्रतादिविशेषस्य प्रत्यक्षाद्यवगतस्यैवंसति निवृत्ति-, . प्रसङ्गः । न चाबाधितप्रमाणविषयीकृतस्य तथाभूतस्य तस्य निवृत्तिर्युक्ता, सर्वभावनिवृत्ति. 15 प्रसक्तेः, अन्यभावाभ्युपगमस्यापि सन्निबन्धनत्वात् , तत्प्रतीतस्याप्यभावे सर्वव्यवहाराभाव इति ॥ ९९ ॥ सामान्यविशेषानेकान्तात्मकवस्तुप्रतिपादकं वचनमाप्तस्य, इतरदितरस्येत्याह
पच्चुप्पन्नं भावं विगयभविस्सेहिं जं समण्णेइ। एये पडुच्चवयणं दव्वंतरणिस्सियं जं च ।। १०० ।। प्रत्युत्पन्नं भावं विगतभविष्यद्भयां यत् समन्वेति ।
एतत् प्रतीत्यवचनं द्रव्यान्तरनिस्सृतं यच्च ॥ छाया ॥ १. तथा च प्रयोगः, अर्थ: सामान्यविशेषात्मा. अयाध्यमानानुवृत्तव्यावृत्तप्रत्ययगोचरान्यथानुपपतेः, घंटेषु घटो घट इत्यनुवृत्तप्रत्ययस्य, ताम्रो मार्तिकः सौवर्णः, पादिर्वा न भवतीति व्यावृत्तप्रत्ययस्य चाबाध्य - मानस्य प्रतिप्राणि प्रतीतत्वान्नात्र साधनमसिद्धम्, न चायं प्रत्ययो भ्रान्तः, सविकल्पकत्वेन भ्रान्तत्वे निर्विकल्पकत्वेन निर्विकल्पकस्यापि भ्रान्तस्वापरयाऽभ्रान्तः कोऽपि प्रत्ययो न भवेत्, अर्थसामथ्र्यजन्यत्वस्य निर्विकल्पकाभ्रान्ततायां नियामकत्वं तु न सम्भवति, अस्योत्तरस्य सविकलाकेऽपि तुल्यत्वादिति, विरद्धानैकान्तिकदोषयोस्तु शंकैव नास्तीति ।
३३
20
"Aho Shrutgyanam"