________________
सम्मतित स्वसोपाने
[ एकोनाशम्
3
प्रत्युत्पन्नमिति, प्रत्युत्पन्नं भावं वस्तुनो वर्तमानपरिणामं विगतभविष्यद्भयां पर्याया भ्यां यत्समानरूपतया नयति- प्रतिपादयति वचः तत्प्रतीत्यवचनं समीक्षितार्थवचनं सर्वज्ञवचनमित्यर्थः अन्यच्चानाप्तत्रचनम् । ननु वर्त्तमानपर्यायो यदि पूर्वमपि स्यात् तर्हि कारकव्यापारी व्यर्थः क्रियागुणव्यपदेशानाञ्च प्रागप्युपलम्भः स्यात्, तथोत्तरकालमपि यदि 15 भवेत्तदा विनाशहेतुव्यापारो व्यर्थः उपलब्ध्यादिश्च भवेत् तस्माद्यदैवोपलम्भादिकार्यकृत् तत्तदैव, न प्राकू न वा पश्चात्, अर्थक्रियालक्षणसच्चविरहे च वस्तुनोऽभावादिति, मैवम्, प्रामसत्वे तस्यादलस्योत्पत्त्ययोगात्, न चात्मादिद्रव्यं विज्ञानादिपर्यायोत्पत्तौ दलम्, तस्य freeनत्वात् न च निष्पन्नस्यैव पुनर्निष्पत्तिः, अनवस्थाप्रसङ्गात् । न च तत्र विद्यमान एव ज्ञानादिकार्योत्पत्तिः, तत्रेति सम्बन्धाभावतो व्यपदेशाभावप्रसङ्गात् । समवायसम्बन्ध10 कल्पनायां तस्य सर्वत्राविशेषात्तद्वदाकाशादावपि तत्स्यात् । अथात्मादिद्रव्यमेव तेनाकारेणोत्पद्यते इति नादलोत्पत्तिः कार्यस्य, सत्यम्, भवत्वेवमुत्पत्तिः, किन्त्वात्मद्रव्यं पूर्वमध्यासीत्, पश्चादपि भविष्यति, तत्सर्वावस्थासु तादात्म्यप्रतीतेः, अन्यथा पूर्वोत्तरावस्थयोः तत्प्रतिभासो न स्यात्, न चायमेकत्वप्रतिभासो भ्रान्तः, बाधकाभावे भ्रान्त्यसिद्धेः, म चार्थक्रियाविरोधो नित्यत्वे बाधकः, अनित्यत्व एव तस्य बाधकत्वेन प्रतिपादनात् । उत्पाद15 विनाशयोरपि तत्र प्रतिपत्तौ न वैकान्ततो नित्यत्वमेव, परिणामनित्यतया तस्य नित्यत्वात्, अन्यथा खरविषाणवत्तत्याभावप्रसङ्गात् । न चैवं तस्य विकारित्वप्रसङ्गो दोषाय, अभीष्ट - स्वात् । न च नित्यत्वविरोधः, तथैव तत्तत्वप्रतीतेः, न चेयं भ्रान्तिः बाधकाभावात् । अथ ज्ञानपर्यायादात्मनो व्यतिरेके भेदेनोपलम्भः स्यात्, अव्यतिरेके पर्यायमात्रं द्रव्यमात्रं वा भवेत्, उभयपक्षश्च विरुद्धः, अनुभयपक्षस्तु अन्योऽन्यव्यवच्छेदरूपाणामेकनिषेधे20 नापरविधानादसङ्गतः, मैवम्, व्यतिरेकाव्यतिरेकपक्षस्याभ्युपगमात् । न च व्यतिरेक पक्षोक्तस्तत्पृथगुपलब्धिप्रसङ्गो दोषः, एकज्ञानव्यतिरेकेण ज्ञानान्तरेऽपि तस्य प्रतीतिरेकोपलम्भस्य सद्भावात्, अव्यतिरेकोऽपि ज्ञानात्मकत्वेन तस्य प्रतीतेः । न च व्यतिरेकाव्यतिरेकयोरन्योऽन्यपरिहारेणावस्थानाद्विरोधः, अबाधितप्रमाणविषयीकृते वस्तुतत्त्वे विरोधासम्भवात्, अन्यथा संशयज्ञानस्यैकानेकरूपस्य वैशेषिकेण, ग्राह्यग्राहकसंवित्तिरूपस्य बुद्ध्यात्मनश्चैकानेकस्वभावस्य सौगतेन कथं प्रतिपादनमुपपत्तिमद्भवेद्यदि प्रमाणप्रतिपन्ने वस्तुतस्त्वे विरोधः सङ्गच्छेत, एवञ्च वर्तमानपर्यायस्यान्वयिद्रव्यद्वारेण त्रिकालास्तित्वप्रतिपादकं प्रतीत्यवचनमिति सिद्धम् । परमाण्वारम्भकद्रव्यात् कार्यद्रव्यं द्वणुकादि द्रव्यान्तरं वैशेषिकाभिप्रायतः, तेन निःसृतं सम्बद्धं कारणं परमाण्वादि यत्
25
१ असंबद्धस्य ।
: २५८ :
"Aho Shrutgyanam"
"