________________
सोपानम् ]
सामान्यविशेषात्मकत्वस्थापनम् ।
: २५९ :
प्रतिपादयति तदपि प्रतीत्यवचनम् । तथाहि अणुकरूपतया परमाणवः प्रादुर्भता व्यणु. कतया प्रच्युताः परमाणुरूपतया अविचलितस्वरूपा अभ्युपगन्तव्याः, अन्यथा तद्रूपतयानुत्पादे प्राक्तनरूपताऽपगमो न स्यात् , तदनपगमे च नोत्तररूपतयोत्पत्तिस्तदवस्थावत् । परमाणुरूपतयाऽपि बिनाशोत्पत्यभ्युपगमे पूर्वोत्तरावस्थयोनिराधारविगमप्रादुर्भावप्रसक्तिः । न च पूर्वोत्तरावस्थाविनाशप्रादुर्भावाभ्यां न कारणविनाशप्रादुर्भावाविति वक्तव्यम्, 5 ततस्तस्यैकान्ततो हिमवद्विन्ध्ययोरिव भेदप्रसक्तेः । न च कारणाश्रितस्य कार्यद्रव्यस्योत्पत्ते. नयं दोषः, तयोर्युतसिद्धितः कुण्डबदरवत् पृथगुपलब्धिप्रसङ्गात् , अयुतसिद्ध्यङ्गीकारे कार्योत्पत्तौ कारणस्याप्युत्पत्तिः स्यात्, अन्यथाऽयुतसिछ्यसम्भवात् , न चायुताश्रयसमवायित्वमयुतसिद्धिः, समवायनिषेधात् । न चायुतसिद्धित एव समवायसिद्धिः, अन्योन्याश्रयात्, न च समवायस्याध्यक्षतः सिद्धिः, तन्त्वात्मकपटप्रतिभासमन्तरेणापरसमवायस्या- 10 ध्यक्षप्रतिपत्तावप्रतिपत्तेः । तस्मात्तथाभूतवस्तुप्रतिपादकमेवाऽऽतवचनम , एकान्तप्रतिपादकन्तु नाप्तवचनमिति ॥ १०॥
ननु प्रत्युत्पन्नपर्यायस्य स्वकालवदतीतानागतकालयोः सत्त्वेऽतीनानागतकालयोर्वर्तमानकालतापत्तिः, अन्यथा तद्रूपतया तयोस्तत्सत्त्वासम्भवात् , त्रैकाल्यायोगात् तस्य; तद्वि. शिष्टतानुपपत्तेस्तथाभूतार्थप्रतिपादकं वचनमप्रतीत्यवचनमेवेत्यत्राह
दव्वं जहा परिणयं तहेव अत्थित्ति तम्मि समयम्मि। विगय भविस्सेहिं उ पजएहिं भयणा विभयणा व ॥ १॥
द्रव्यं यथा परिणतं तथैवास्तीति तस्मिन् समये ।
विगतभविष्यद्भिस्तु पर्याय जना विभजना वा ॥ छाया ॥ द्रव्यमिति, चेतनाचेतनं द्रव्यं तदाकारार्थग्रहणरूपतया घटादिरूपतया वा यथा परिणतं 20 वर्तमानसमये तत्तथैवास्ति विगतभविष्यद्भिस्तु पर्यायैर्भजना कथश्चित्तैस्तस्यैकत्वम्, विभ. जना-कथञ्चिन्नानात्वं वा शब्दस्य कथश्चिदर्थत्वात् । ततः प्रत्युत्पन्नपर्यायस्य विगतभविष्यद्वयां न सर्वथै कत्वमिति कथं तत्प्रतिपादकवचनस्याप्रतीत्यवचनतेति भावः ॥ १ ॥ ननु घटादेरर्थस्य कैः पर्यायैरस्तित्वमनस्तित्वं वेत्यत्राह
परपजवेहिं असरिसगमेहिं णियमेण णिञ्चमवि नस्थि । सरिसेहिं पि वंजणओ अत्थि ण पुणत्थपज्जाये ॥ २ ॥ परपर्यायैरसदृशगमैनियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनतोऽस्ति न पुनरर्थपर्याथैः ॥ छाया ॥
15
"Aho Shrutgyanam"