SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ एकोनत्रिंशम् । परेति. वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायैः विजातीयज्ञानग्राझैः नियमेन सदा नास्ति तव्यम् , तैरपि तदा तस्य सद्भावेऽवस्थासंकीर्णताप्रसः, सामान्यधर्मः सद्रव्यपु. थिवीत्वादिभिर्विशेषात्मकैश्च शब्दप्रतिपाद्यैरस्ति, सामान्यविशेषात्मकस्य शब्दवाच्यत्वात् , सामान्यमात्रस्य तद्वाच्यत्वे शब्दादप्रवृत्तिप्रसक्तरर्थक्रियासमर्थस्य तेनानुकत्वात् , विशेष5 मन्तरेण सामान्यासम्भवात् सामान्यप्रतिपादनद्वारेण लक्षणया विशेषप्रतिपादनमपि शब्दान्न सम्भवति, क्रमप्रतिपत्तरसंवेदनात् , विशेषाणान्त्वानन्त्यात् संकेतासम्भवतो न शब्दवा. च्यत्वम् , परस्परव्यावृत्तसामान्य विशेषयोरप्यवाच्यत्वम् , उभयदोषप्रसङ्गात् । तत उभयात्मकं बस्तु गुणप्रधानभावेन शब्देनाभिधीयतेऽतः सदृशैव्यञ्जनतोऽस्तीत्युपपन्नम् , ऋजुसूत्रा भिमतार्थपर्यायेण तन्नैवास्ति, अन्योऽन्यव्यावृत्तवस्तुस्वलक्षणग्राहकत्वात्तस्य ॥ २ ॥ 10 ननु प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमे एकान्तवादापत्तिरित्याशङ्कयाह पच्चुप्पण्णम्मि वि पजयम्मि भयणागई पडइ दव्वं । जं एगगुणाईया अणंतकप्पा गमविसेसा ॥ ३ ॥ प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् । यदेकगुणादयोऽनन्तकल्पा गमविशेषाः ॥ छाया ॥ 15 प्रत्युत्पन्नेऽपीति, वर्तमानेऽपि परिणामे स्वपररूपतया सदसदात्मरूपतां अधोमध्यो भंदिरूपेण च भेदाभेदात्मकतां द्रव्यं भजनागतिमासादयति, यत एकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गमविशेषाः, तेषां च मध्ये केनचिद्गुणविशेषेण युक्तं तत् , तथाहि कृष्णं द्रव्यं तद्र्व्यान्तरेण तुल्यमधिकमूनं वा भवेत् प्रकारान्तराभावान , प्रथमपक्षे सर्वथा तुल्य त्वे तदेकत्वापत्तिः उत्तरपक्षयोः संख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्य20 म्भाविनी । ननु पुद्गलद्रव्यस्यापरपुद्गलद्रव्यापेक्षयाऽनेकान्तरूपता भवतु, प्रत्युत्पन्ने वात्म द्रव्यपर्याये कथमनेकान्तरूपता, न, आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्राह्यार्थापेक्षयाऽनेकान्तरूपत्वे पुद्गलवदविरोधात् , द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यप्रभेदात्मकत्वादात्मनोऽनेकान्तरूपताया आगमे प्रतिपादितत्वाच्च ।। ३ ।। इतश्चानेकान्तात्मकताऽऽत्मन इत्याह कोवं उपायंतो पुरिसो जीवस्स कारओ होइ। । तत्तो विभएयव्वो परम्मि सयमेव भइयवो ।। ४ ।। कोपमुपनयन् पुरुषो जीवस्य कारको भवति । ततो विभजनीयः परस्मिन् स्वयमेव भजनीयः ॥ छाया ॥ 25 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy