________________
सोपानम् ]
सामान्य विशेषात्मकत्वस्थापनम् ।
: २६१
कोपमिति, पुरुषः कोपपरिणतिमुपनयन् जीवस्य परभवप्रादुर्भावनिर्वर्त्तको भवति, तन्निमित्तकर्मोपादानात् | कोपपरिणाममापद्यमानः पुरुषः परभवजीवाद्भिन्नो व्यवस्थापनीयः, मृत्पिण्ड घटवत्कार्यकारणयोः कथचिद्भेदात्, अन्यथा कार्यकारणभावो न स्यात् । न चासौ ततो भिन्न एव परभवे स्वयमेव पुरुषो भजनीयः, आत्मरूपतयाऽभेदेन व्यवस्थाप्यत इति भावः, घटाद्याकारपरिणतगृहव्यवत् कथविभिन्न इत्यनेकान्तः ॥ ४ ॥
द्रव्यं गुणादिभ्योऽनन्यत्, तेऽपि द्रव्यादनन्य एवेत्यने कान्तानभ्युपगमवादिन आहु:
रूवरसगंधफासा असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया गुण त्ति से केइ इच्छति ॥ ५ ॥
रूपरसगन्धस्पर्शा असमानग्रहणलक्षणा यस्मात् ।
तस्माद् द्रव्यानुगता गुणा इति ते केचिदिच्छन्ति ॥ छाया ||
,
रूपेति, यस्माद् रूपादयो भिन्नप्रमाणग्राह्या भिन्नलक्षणाश्च स्तम्भकुम्भादिवत्, ततो द्रव्याद्भिन्ना गुणा इति वैशेषिकादयः, सिद्धान्तानभिज्ञाः स्वयूथ्या वा केचनाभ्युपगच्छन्ति, वदन्ति चोकौ हेतू नासिद्धौ द्रव्यस्य यमहमद्राक्षं तमेव स्पृशामीति अनुसंधानाध्यक्ष प्रायत्वात्, रूपादीनाञ्च प्रतिनियतेन्द्रियजन्यप्रत्ययवेद्यत्वात् । दार्शनं स्पार्शनञ्च द्रव्यमित्याद्यभिधानादसमानग्रहणता द्रव्यगुणयोः सिद्धा, गुणवद्रव्यं, अगुणवान् द्रव्याश्रयी संयोगविभागेष्वकारण- 15 मनपेक्षो गुण इति विभिन्नलक्षणत्वमपि इति ॥ ५ ॥
अभेदवादी परिहारमस्याह—
दूरे ता अण्णत्तं गुणस हे चेव ताव पारिच्छं ।
किं पज्जवाहिओ होज पज्जवे चेव गुणसण्णा ॥ ६ ॥
दूरे तावदम्यत्वं गुणशब्दे एव तावत् पारीक्ष्यम् ।
किं पर्यायाधिको भवति पर्याये चैव गुणसंज्ञा ॥ छाया ॥
5
10
" Aho Shrutgyanam"
20
दूर इति, गुणगुणिनोरेकान्तेनान्यत्वं तावदूरे, असम्भावनीयमिति यावत् गुणात्म कद्रव्यप्रत्ययबाधितत्वादेकान्ततद्भेदस्य, न वायमभेदप्रत्ययः समवायनिमित्तः, तस्य निषिद्धस्वात् न चैकत्वप्रत्ययस्य प्रागुक्तानुमानबाधा, तस्य एकत्वप्रत्ययाध्यक्ष बाधित कर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वात्, ततस्तयोरेकान्तान्यत्वस्यासम्भवात् गुणशब्दे एवं 25 तावत् किं पर्यायादधिके गुणशब्दः, उत पर्याय एव प्रयुक्त इति पारीक्ष्यमस्ति अभिप्रायश्च न पर्यायादन्यो गुणः पर्यायश्च कथचिद्रव्यात्मक इति विकल्पः कृतः ॥ ६ ॥
यदि पर्यायादन्यों गुणः पर्यायार्थिकवगुणार्थिकोऽपि नयो वक्तव्यः स्यादित्याह -