________________
सम्मतितत्त्वसोपाने
[ एकोनत्रिशम्
दो उण णया भगवया दवडियपजयट्टिया नियया । एत्तो य गुणविसेसे गुणट्ठियणओ वि जुजंतो ॥ ७ ॥ हौ पुर्नयौ भगवता द्रव्याधिकपर्यायाथिको नियमिती।
एतस्माच्च गुणविशेष गुणार्थिकनयोऽपि युज्यमानः ॥ छाया ॥ 5 द्वाविति, भगवता द्रव्यार्थिकपर्यायार्थिकाविति द्वौ मूलनयो नियमितौ, तत्र गुणविशेषे पर्यायादधिके माधे सति तद्राहकगुणास्तिकनयोऽपि नियमयितुं उचितः स्यात् , अन्यथाऽव्यापकत्वं नयानां भवेत् , अहंतो वा तदपरिज्ञानं प्रसज्येत ॥ ७ ॥ न चासौ भगवतोक्त इत्याह--
जं पुण अरिहया तेसु तेसु सुत्तेसु गोयमाईणं । पजवसण्णा णियया वागरिया तेण पज्जाया ॥८॥ यत् पुनरर्हता तेषु तेषु स्त्रेषु गौतमादिभ्यः ।
पर्यायसंशा नियमिता व्याकृतास्तेन पर्यायाः ॥ छाया ॥ यदिति, भगवता यतस्तेषु सूत्रेषु ‘वण्णपजवे हिं गंधपज्जवेहिं [ भग० सू० शत० १४, उ०४, सू० ५१३ ] इत्यादिना वर्णादिषु पर्याय संज्ञा नियमिता गौतमादिभ्यो व्याकृताः, ततः 15 पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः ॥ ८ ॥
अथ तत्र गुण एव पर्यायशब्देनोक्तस्तुल्यार्थत्वात् , य एव पर्यायः स एव गुण इति वचनाचेत्याह
परिगमणं पज्जाओ अणेगकरणं गुणत्ति तुल्लत्था । तहवि ण गुण त्ति भण्णइ पज्जवणयदेसणा जम्हा ।। ९ ।। परिगमनं पर्यायोऽनेककरण गुण इति तुल्याएँ ।
तथापि न गुण इति भण्यते पर्यवनयदेशना यस्मात् ॥ छाया ॥ परिगमनमिति, परि समन्तात् सहभावि भिः क्रमभाविभिश्च भेदैर्वस्तुनः परिणतस्य गमनं परिच्छेदो यः स पर्यायः, विषयविषयिणोरभेदात् । अनेकरूपतया वस्तुनः करणं
ज्ञानं करोतेानार्थत्वात् , गुणः, विषयविषयिणोरभेदादेव । इति गुणपर्यायशब्दौ तुल्यार्थी 25 तथापि न गुणार्थिक इत्यभिहितं तीर्थकृता, यतो भगवता पर्यायनयद्वारेणैव देशना कृता ॥९॥
20
१ज्ञानसुखवीर्यादय: सहभाविनस्त एव गुणाः, सुखदुःखहर्षविषादादयः क्रमवृत्तयः, ते पर्यायाः, काल. भेदविभेदापेक्षया गुणपर्याययोर्भदस्यानुभवात् कथञ्चिद्धदः, धर्म्यपेक्षया कथञ्चिदभेदः ॥
"Aho Shrutgyanam"